SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७० काव्यमाला । [मत्ता योधा वर्धितकोपा अहमहमिकया गर्विता ___ रोषारक्तसर्वगात्राः शल्यं भल्ला उत्थापिताः । हस्तियूथानि सज्जीभूतानि पादैर्भूमिः कम्पिता गृहाण देहि त्यज प्रतीक्षस्व सर्वे शूरा जल्पन्ति ॥] कश्चिद्वन्दी कस्यचिन्नरपतेः संग्राममुपवर्णयति-यत्र योधा भटा वर्धितकोपाः सन्तो. ऽत एव वीररसावेशेन मत्ताः, अप्पाअप्पी अहमहमिकया गर्विताः साहंकारा जाताः । कीदृशाः । रोषेणारक्तसर्वगात्राः, तदनन्तरं तादृशसंग्रामे शल्यं भल्लाश्चायुधविशेषा उत्था. पिताः । अथ च-हस्तियूथानि गजसमूहाः सज्जीभूतानि । अत एव संचरच्चतुरङ्गबलपादेन भूमिः कम्पिता । किं च तादृशसंकुलीभूतसमरसीमनि सर्वे शूराः शूरान्तरं प्रति 'गृहाण, देहि, त्यज, प्रतीक्षस्व' इत्यादि संग्रामसंपादकं वचनं जल्पन्ति-इति ॥ यथा वा-'पायाद्वो गोविन्दः कालिन्दीकूलक्षोणीचक्रे रासोल्लासक्रीडद्गोपीभिः साध लीलाखेलः । मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो यद्वद्देवानामीशः स्वर्वेश्याभिः खेलन्तीभिः ॥' उट्टवणिका यथा-ss, ss, ss, ss, ss, ss, ss, 5, १५४४-६० ॥ यथा वा-'मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः [कान्तं वकं वृत्तं पूर्ण चन्द्र मत्वा रात्रौ चेत् । क्षुत्क्षामः प्राटश्वेतश्चेतो राहुः क्रूरः प्राद्यात्तस्माद्धान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥] इति ज्यौतिषिकाणां कालपरिमाणसूचकमुदाहरणमिति ॥ सारङ्गिका निवृत्ता॥ अथ चामरच्छन्दःचामरस्स वीस मत्त तीणि मत्त अग्गला अट्ट हार सत्त सार ठाइ ठाइ णिम्मला । आइअन्तहारसार कामिणी मुणिज्जिए अक्खरा दहाइ पञ्च पिङ्गले भणिज्जिए ॥ १८९॥ [चामरस्य विंशतिर्मात्रा तिस्रो मात्रा अधिकाः अष्ट हाराः सप्त शराः स्थाने स्थाने निर्मलाः । आद्यन्तयोर्हारसाराणि कामिनि ज्ञायन्ते अक्षराणि पञ्चदश पिङ्गलेन भण्यते ॥] हे कामिनि, चामरस्य छन्दसत्यधिका विंशतिस्त्रयोविंशतिर्मात्राः पदे भवन्ति । तत्राष्टौ हारा गुरवः, शरा लघवस्ते च सप्त, स्थाने स्थाने निर्मला दृश्यन्ते यत्रेति नियमः । नियमान्तरमाह-आइअन्तहारसार आद्यन्तयोर्हारो गुरुः सारो यत्रैवरूपाणि पनदशाक्षराणि पदे ज्ञायन्ते, तत्पिङ्गलेन नागराजेन चामरमिति छन्दो भण्यत इति यो
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy