________________
२ परिच्छेदः] . प्राकृतपिङ्गलसूत्रम् ।
१६९ कश्चिद्भक्तः शिवं प्रार्थयते-हे चन्द्रकलाभरण चन्द्रशेखर देव, यदि तव दुरितगणहरणः पापसमूहविनाशकश्चरणः (१) शरणं प्राप्नोमि, तदा लोभे मनस्त्यक्त्वा भवनं गृह निरन्तरं परिपूजयामि । अतो मह्यं तादृशं सुखं देहि हे रमण नित्यविहारशील, येनाहं त्रिविधशोकविनाशमनाः । स्यामिति शेषः ॥ यथा वाणीभूषणे]-'सखि संप्रति के प्रति मौनमिदं विहितं मदनेन धनुः सशरं स्वकरे निहितम् । नतिशालिनि का वनमालिनि मानकथा रतिनायकसायकदुःखमुपैमि वृथा ॥ उद्दवणिका यथा-us, us, us, us, ॥s, १५४४६० ॥ भ्रमरावली निवृत्ता ॥ अथ सर्वगुरुसारङ्गिकाछन्दःकण्णा दिण्णा सत्ता अन्ते एका हारा माणीआ
पण्णाराहा हारा सारङ्गिका छन्दा जाणीआ । तीसा मत्ता पाए पत्ता भोईराआ जम्पन्ता
छन्दा किज्जे कित्ती लिज्जे सूणी मत्था कम्पन्ता ॥ १८७॥ [कर्णा दीयन्ते सप्तान्त एको हारो मान्यते
पञ्चदशहारं सारङ्गिकाछन्दो ज्ञातव्यम् । त्रिंशन्मात्राः पादे प्राप्ता भोगिराजो जल्पति
छन्दः क्रियते कीर्तिर्गृह्यते श्रुत्वा मस्तकं कम्पते ॥] __ भोः शिष्याः, यत्र कर्णा द्विगुरवो गणाः सप्त दीयन्ते, अन्ते एको हारो गुरुर्मान्यते पूज्यते ।अभ्यर्हितः क्रियत इत्यर्थः । एवं पदे पञ्चदशापि हारा गुरवो यत्र तत्सारङ्गिकाछन्द इति ज्ञातव्यम् ॥ तत्र शिष्यव्युत्पत्तिसिद्धये पादपूरणार्थे वा मात्रानियममाह-यत्र पदे गुरूणां द्विगुणाभिप्रायेण त्रिंशन्मात्राः प्राप्ताः, तद्भोगिराजो जल्पति एवं छन्दः क्रियते कीर्तिरपि तेन गृह्यते । किं बहुना-यच्छ्रत्वा मस्तकं कम्पते ॥ एतस्या एव प्रन्थान्तरे लीलानेल इति नामान्तरम् ॥ तथा च छन्दोमअर्याम्-'एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः' इति ॥ सारङ्गिकामुदाहरति-जहा (यथा)मत्ता जोहा वेट्टे कोहा अप्पाअप्पी गव्वीआ
रोसारत्तासव्वागत्ता सल्ला भल्ला उव्वीआ । हत्थीजूहा सज्जा हुआ पाए भूमी कम्पन्ता
लेही देही छोडो उड्डो सव्वा सूरा जम्पन्ता ॥ १८८ ॥ १. 'दत्ताः' इति छाया रवि०. २. 'जाणीआ' रवि०. ३. 'माणीआ' रवि०. ४. 'चम्पन्ता' रवि०. ५. 'उठे कोहा (उत्थिताः क्रुद्धाः) रवि०.
२२