SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १६८ काव्यमाला। भेदानाम् । तेषु कियन्तो भेदाः प्रदर्शिताः। शेषभेदाः सुधीभिराकरतः स्वमत्या वा प्रस्तार्य स्वयमूहनीया इति दिक् ॥ अथ पञ्चदशाक्षरप्रस्तारे भ्रमरावली छन्दो लक्ष्यते कर पञ्च पसिद्ध विलद्धवरंरअणं पभणन्ति मणोहर छन्दवरं रअणम् । गुरु पञ्च दहा लहु एरिसिअं रइअं भमरावलि छन्द पसिद्ध किअं ठइअम् ॥ १८५ ॥ [करैः पञ्चभिः प्रसिद्धं विलब्धवररचनं प्रभणन्ति मनोहरं छन्दोवरं रत्नम् । गुरवः पञ्च दश लघव एतादृशं रचितं भ्रमरावली छन्दः प्रसिद्धं कृत्वा रचितम् ॥] भोः शिष्याः, यत्र करैः पञ्चभिः सगणैर्गुर्वन्तगणैर्विशेषेण लब्धं वरं रचनं यत्र तत् मनोहरं छन्दस्सु [उत्तमं] रत्नमाचार्याः प्रभणन्ति । अथ च-यत्र गुरवः पञ्च, लघवो दश, तदेतादृशं छन्दो भ्रमरावलीति रचितं पिङ्गलेन प्रसिद्धं कृत्वा स्थापितम् । इदानींतनैराचार्यैरिति ॥ वाणीभूषणे तु–'भुजसंगतशङ्खयुगा वलयाकलिता करपुष्पसुगन्धवती रसना रुचिरा । कनकद्वयनूपुरचारुतरा जयति भ्रमरावलिका भुजगाधिपदुर्ललिता ॥' द्वितीयोऽर्थः स्पष्टः ॥ भ्रमरावलीमुदाहरति-जहा (यथा) तुअ देव दुरित्तगणाहरणा चरणा __ जइ पावउ चन्दकलाभरणा सरणा । परिपूजउ तेज्जिअ लोभ मणा भवणा सुह दे मह सोकविणासमणा रमणा ॥ १८६ ॥ [तव देव दुरितगणहरणश्चरणो (?) ___ यदि प्राप्नोमि चन्द्रकलाभरण शरणम् । परिपूजयामि त्यक्त्वा लोभे मनो भवनं सुखं देहि मह्यं शोकविनाशमना रमण ॥] १. 'तुअ देउ-' इति पठित्वा 'तव देव दुरितगणहरणौ चरणौ यदि प्राप्नोमि । च. न्द्रकलाभरणौ शरणौ ।' 'चन्द्रकलाभरणौ' इत्यनेन चरणस्य नखाश्चन्द्रकलावद्वर्णिताः. एतादृशौ चरणौ परिपूजयामि' इति रविदासः.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy