________________
१७५
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
काचित्प्रोषितपतिका सखीमाह-हे हल्ले नीचसखिसंबोधने । 'हले हण्डे हलाह्वाने नीचां चेटी सखी प्रति' इत्यमरनिर्देशात् । मलयवातो दक्षिणानिलो वहति । अत एव हन्त इति खेदे । कम्पन्ते गात्राणि । अथच कोकिलालापबन्धः श्रवणरन्ध्र हन्ति पिकपञ्चमस्वरप्रबन्धः कर्णरन्ध्र भिनत्तीत्यर्थः । किंच दशसु दिक्षु भ्रमरझंकारभाराः श्रूयन्ते । अत एव जातबलश्चण्डोऽतिकठोराशयश्चाण्डाल इव मारो मारात्मकः कामो हन्ति हन्ति । मामिति शेषः । अत्र हन्तीति वीप्सया निर्दयत्वमेतस्य मदनस्य सूचितमिति भावः ॥ यथा वाणीभूषणे] –'नयन विगलदस्रस्रोतसा कृष्यमाणे नवकिसलयतल्पे हन्त सुप्ता मृगाक्षी । प्रबलमदनबाधालोलदोर्वल्लिरेषा विरहजलधिपारं गन्तुमभ्यस्यतीव ॥' उद्दवणिका यथा-॥ ॥ ॥, sss, ।, ss,1, 55, १५४४६०॥मालिनी निवृत्ता ॥ अथ शरभछन्दःभणिअ सुपिअगण रसजुअसहिओ
तह विहु करअल पअ पअ लहिओ । चउचउकलगण पंअ पअ सुहिओ
सरह सुपिअ गणफणिवइकहिओ ॥ १९७ ॥ [भणितः सुप्रियगणो रसयुगसहितः
तथा द्वौ करतलं पदे पदे लब्धम् । चतुश्चतुष्कलगणाः पदे पदे सुहिताः
शरभं सुप्रियाः फणिगणपतिकथितम् ॥] भोः सुप्रियाः सुतरां प्रियाः शिष्याः, प्राकृते पूर्वनिपातानियमात् फणिगणानां पतिना(त्या) पिङ्गलेन कथितं तच्छरभाख्यं छन्दः । कीदृशम् । यत्र सुप्रियगणो लघुद्वयात्मको गणो रसयुगेन लघुद्वयेन सहितः पूर्व भणितः पठितः, तथा-विहु द्वौ सुप्रियगणौ रसयुगेनैव सहितौ कार्यो, ततः करतलं सगणः पदे पदे प्रतिपदं लब्धः । यत्र चैवं प्रकारेण पदे पदे चतुश्चतुष्कला गणाः सुतरां हिताः, तादृशं वृत्तं शरभनामकमिति ॥ भूषणेऽपि'द्विजवरत्रि(?)तयकलितमिह सगणं कलय शरभमतिरतिरतिकरणम् । कविवरसकलहृदयकृतहरणं फणिवरनरपतिवदनविहरणम् ॥' शरभमुदाहरति—जहा (यथा)
तरलकमलदलसरिसउणअणा
सरअसमअससिसुसरिसवअणा । १. 'पअ पअ मुणिओ । सरह सुपिअ गण फणिवइभणिओ (प्रतिपदं ज्ञाताः । शरभं सुप्रिये गणप फणिपतिभणितम्) रवि०.