Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 189
________________ प्राक २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ मनोहंसं छन्द:जिह आइ हत्थ णरेन्दविण्णवि दिज्जिआ गुरु एक काहलवेवि तक्का किज्जिा । गुरु ठाइ गन्ध अ हार अन्तहि थप्पिआ मणहंस छन्द पसिद्ध पिङ्गलजप्पिआ ॥ १९३ ।। यत्रादौ हस्तो नरेन्द्रद्वयं दीयते गुरुरेकः काहलद्वयं तदनन्तरं क्रियते गुरुं स्थापयित्वा गन्धं च हारोऽन्ते स्थाप्यते मनोहंसं छन्दः प्रसिद्धं पिङ्गलजल्पितम् ॥] भोः शिष्याः, यत्रादौ हस्तः सगणो गुर्वन्तगणः, ततो नरेन्द्रद्वयं जगणद्वयं दीयते, अनन्तरमेको गुरुः । तकइ तदनन्तरम् । काहलवेवि काहलद्वयं लघुद्वयं क्रियते, ततो गुरुं स्थापयित्वा गन्धं च लघुमपि स्थापयित्वेत्यर्थः । तथा-अन्ते यत्र हारो गुरुः स्थाप्यते तन्मनोहंसमिति प्रसिद्ध छन्दः पिङ्गलेन जल्पितमिति जानीत ॥ वाणीभूषणे तु-'सगणं विधाय पयोधरद्वयसुन्दरं भगणं ततो विनिधाय चामरतोमरम् । मनहंसवत्तमिदं च पश्चदशाक्षरं भणितं भुजंगमनायकेन मनोहरम् ॥' मनोहंसमुदाहरति-जहा (यथा) जहि फुल्ल केसुअसोअचम्पअवञ्जुला __ सहकारकेसरगन्धलुद्धउ भम्मला । वह दक्खदक्खिण वाउ माणहभञ्जणा महुमास आविअ लोअलोअणरञ्जणा ॥ १९४॥ [यत्र पुष्पिताः किंशुकाशोकचम्पकवञ्जुलाः सहकारकेसरगन्धलुब्धा भ्रमराः । वहति दक्षो दक्षिणो वायुर्मानभञ्जनो मधुमास आगतो लोकलोचनरञ्जनः ॥] काचिद्वसन्तमुपवर्णयन्ती प्रोषितपतिका निजसखीमाह-हे सखि, यत्र पुष्पिताः किंशुका अशोकाश्चम्पका वञ्जुलाश्च । वसन्ते पुष्पिता इति । किंच-सहकारकेसरगन्धलुब्धा भ्रमराः । वर्तन्त इति शेषः । अथ च-वहति दक्षो दक्षिणो वातः मानानां भञ्जनः, अतश्च मधुमासो वसन्तः समागतो लोकलोचनरञ्जनः ॥ यथा वाणीभूषणे]-'नवमअवजुलकुअकूजितकोकिले मधुमत्तचश्चलचञ्चरीककुलाकुले । समयेऽतिधीरसमीरकम्पि

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256