Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 194
________________ १७८ काव्यमाला। पलन्त हारु चारु सारु अन्त जस्स वट्ठए पसिद्ध ए णराउ जम्पु गन्धबैङ्कअट्ठए ॥ २०२ ॥ [नरेन्द्रो यत्र शबलः सुपर्णों द्वावेव दृश्येते __पदातिः पञ्चमस्थाने कलाश्चतुर्विंशतिः । पतितो हारश्चारुः सारोऽन्ते यस्य वर्तते प्रसिद्धमेतन्नाराचं जल्पति गन्धवक्राष्टकम् ॥] भोः शिष्याः, यत्र नरेन्द्रो जगणो गुरुमध्यमो गणः शबलश्चित्रितो वर्तते । तथा च सुपर्णो रगणो लघुमध्यमो गणः वेवि सुपर्णावेव द्वौ गणौ दृश्येते नान्य इति नियमः । पइकश्चतुष्कलोऽर्थाद्रुरुमध्यो जगण एव । ठामपञ्चमे प्राकृते पूर्वनिपातानियमात् पञ्चमस्थाने नायको देय इत्यर्थः । तद्दानं गणान्तरनिरासार्थम् । रगणस्य पश्चकलत्वादिति भावः। एवं गणपञ्चकेन पञ्चदशाक्षराणि, ततश्च हारो गुरु यथा स्यात्तथा सारभूतोऽन्ते यस्य प. तितो वर्तते । एतत्प्रसिद्ध नाराचनामकम् । कलाश्चतस्रः सविंशतयः पदे यस्य चरणस्थितचतुर्विंशतिकलात्मकमिदं छन्दः पणीन्द्रो जल्पति ॥ तत्र लघुगुरुनियममाह-गन्धबङ्कअट्ठए गन्धवक्रयोलघुगुर्वोः क्रमेणाष्टकं यत्रेति । तथा च–अत्रैवाष्टाक्षरप्रस्तारप्र. स्तावेऽभिधीयमाने प्रमाणिकाछन्दोलक्षणे-'लहूगुरू णिरन्तरा पमाणि अट्ठ अक्खरा । पमाणि दूण किज्जए णराउ सो भणिज्जए ॥' इत्युक्तम् । तदत्र सिंहावलोकनन्यायेन संचारणीयमिति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'ध्वजेन नायकेन कुण्डलेन यद्विभूषितं पयोधरेण वीणया शरेण पक्षिणाङ्कितम् । नराचवृत्तमत्र षोडशाक्षरं समीरितं मनीषिमण्डलीहितं फणीन्द्रपन्नगोदितम् ॥ इदमेव ग्रन्थान्तरे पञ्चचामरमिति नामान्तरम् । अत एव छन्दोमार्याम्-'प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम्' इत्युक्तम् ॥ नराचमुदाहरति- जहा (यथा)-- चलन्त जोह सत्तुखोह रैण्णकम्मअग्गरा किवाणवाणसल्लभल्लचावचकमुग्गरा । पैहारघोरमारुधाररग्गवग्गपण्डिआ पअट्ठ ओट्ट देन्त दट्ट तेण सेणमण्डिआ ॥ २०३ ॥ १. 'एक (एको) रवि०. २. 'बन्धु (बन्धवो) रवि०.३. 'वम्मकम्मअग्गरा (वर्मकर्मणि दक्षाः) रवि०. ४. 'पहार धारे मार वार रग्गवगा (प्रहार वारयित्वा खड्न मारयन्ति रङ्गवर्णपण्डिताः) रवि०. ५. 'कन्त दन्ते (प्रदष्ट ओष्ठेन कान्तो दन्तः। तैः सेना म. ण्डिता) रवि०.

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256