Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
१७०
काव्यमाला ।
[मत्ता योधा वर्धितकोपा अहमहमिकया गर्विता ___ रोषारक्तसर्वगात्राः शल्यं भल्ला उत्थापिताः । हस्तियूथानि सज्जीभूतानि पादैर्भूमिः कम्पिता
गृहाण देहि त्यज प्रतीक्षस्व सर्वे शूरा जल्पन्ति ॥] कश्चिद्वन्दी कस्यचिन्नरपतेः संग्राममुपवर्णयति-यत्र योधा भटा वर्धितकोपाः सन्तो. ऽत एव वीररसावेशेन मत्ताः, अप्पाअप्पी अहमहमिकया गर्विताः साहंकारा जाताः । कीदृशाः । रोषेणारक्तसर्वगात्राः, तदनन्तरं तादृशसंग्रामे शल्यं भल्लाश्चायुधविशेषा उत्था. पिताः । अथ च-हस्तियूथानि गजसमूहाः सज्जीभूतानि । अत एव संचरच्चतुरङ्गबलपादेन भूमिः कम्पिता । किं च तादृशसंकुलीभूतसमरसीमनि सर्वे शूराः शूरान्तरं प्रति 'गृहाण, देहि, त्यज, प्रतीक्षस्व' इत्यादि संग्रामसंपादकं वचनं जल्पन्ति-इति ॥ यथा वा-'पायाद्वो गोविन्दः कालिन्दीकूलक्षोणीचक्रे रासोल्लासक्रीडद्गोपीभिः साध लीलाखेलः । मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो यद्वद्देवानामीशः स्वर्वेश्याभिः खेलन्तीभिः ॥' उट्टवणिका यथा-ss, ss, ss, ss, ss, ss, ss, 5, १५४४-६० ॥ यथा वा-'मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः [कान्तं वकं वृत्तं पूर्ण चन्द्र मत्वा रात्रौ चेत् । क्षुत्क्षामः प्राटश्वेतश्चेतो राहुः क्रूरः प्राद्यात्तस्माद्धान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥] इति ज्यौतिषिकाणां कालपरिमाणसूचकमुदाहरणमिति ॥ सारङ्गिका निवृत्ता॥ अथ चामरच्छन्दःचामरस्स वीस मत्त तीणि मत्त अग्गला
अट्ट हार सत्त सार ठाइ ठाइ णिम्मला । आइअन्तहारसार कामिणी मुणिज्जिए
अक्खरा दहाइ पञ्च पिङ्गले भणिज्जिए ॥ १८९॥ [चामरस्य विंशतिर्मात्रा तिस्रो मात्रा अधिकाः
अष्ट हाराः सप्त शराः स्थाने स्थाने निर्मलाः । आद्यन्तयोर्हारसाराणि कामिनि ज्ञायन्ते
अक्षराणि पञ्चदश पिङ्गलेन भण्यते ॥] हे कामिनि, चामरस्य छन्दसत्यधिका विंशतिस्त्रयोविंशतिर्मात्राः पदे भवन्ति । तत्राष्टौ हारा गुरवः, शरा लघवस्ते च सप्त, स्थाने स्थाने निर्मला दृश्यन्ते यत्रेति नियमः । नियमान्तरमाह-आइअन्तहारसार आद्यन्तयोर्हारो गुरुः सारो यत्रैवरूपाणि पनदशाक्षराणि पदे ज्ञायन्ते, तत्पिङ्गलेन नागराजेन चामरमिति छन्दो भण्यत इति यो

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256