SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३४ काव्यमाला | अथामृतगतिछन्द: दिअवर हार पअलिआ पुण वि तह ट्ठिअ करिआ । वसुलहु वे गुरुसहिआ अमिअगइ धुअ कहिआ ॥ ९९ ॥ [द्विजवरो हारः प्रकटितः पुनरपि तथास्थितं कुरु । - वसुलघुद्विगुरुसहितामृतगतिर्ध्रुवं कथिता ||] भोः शिष्याः, सा अमृतगतिरिति ध्रुवं निश्चितं कथिता । सा का । यत्र प्रथमं द्विजवरगणश्चतुर्लघ्वात्मको गणः, ततो हारो गुरुः प्रकटितः पुनरपि तथा स्थितं कुरु द्विजगणानन्तरं गुरुं कुर्वित्यर्थः । एवं सत्यष्टौ लघवो द्विगुरुसहिताश्चरणे यस्याः सामृतगतिरिति ॥ वाणीभूषणे तु–'नगणपयोधररुचिरा कुसुमविराजितसुकरा । वसुलघुदीर्घयुगलका भवति सखेऽमृतगतिका ॥ क्वचिदियमेव त्वरितगतिरिति ॥ अमृतगतिमुदाहरति — जहा (यथा ) - सरदसुधाअरवअणा विअअसरोरुहणअणा | मअगलकुञ्जरगमणी पिअसहि दिट्ठिअ तरुणी ॥ १०० ॥ [शारदसुधाकरवदना विकचसरोरुहनयना । मदगलकुञ्जरगमना प्रियसखि दृष्टा तरुणी ||] प्रियसखि, त्वयां सा तरुणी दृष्टा । कीदृशी । शारदसुधाकरवदना । पुनः कीदृशी । विकचसरोरुहनयना । मदकलकुञ्जरगमना । इति ॥ उवणिका यथा ॥,,,, १०×४=४० ॥ अमृतगतिर्निवृत्ता ॥ अत्र प्रस्तारगत्या दशाक्षरस्य चतुर्विंशत्यधिकं सहस्रं १०२४ भेदा भवन्ति ॥ तेषु पञ्च भेदाः प्रोक्ताः । शेषभेदाः सुधीभिरूहनया इति ॥ अथैकादशाक्षरप्रस्तारे बन्धुच्छन्द: नीलसरूअह एक करीजे तिण्णि भआगण तत्थ भणीजे । सोलह मत्तह पाठवीजे दुग्गुरु अन्तहि बन्धु कहीजे || १०१ || [नीलस्वरूपादेकः कर्तव्यस्त्रयो भगणास्तत्र भण्यन्ते । षोडश मात्रा: पादे स्थाप्यन्ते द्विगुरुरन्ते बन्धुः कथ्यते ॥] षोडशवर्णात्मकैर्भगणपञ्चकयुक्तैः षोडशभिश्चरणैश्चतुश्छन्दोभिप्रायेण नीलस्वरूपं छन्दो भवति । अतश्च नीलस्वरूपादेकश्चरणः कर्तव्यः । तत्र चरणे षोडशवर्णपञ्चभगणगुर्वा - म यो भगणा गुर्वादिका गणा भण्यन्ते । अन्ते भगणत्रयान्ते द्विगुरुः कर्णो दीयते पादे च षोडश मात्राः स्थाप्यन्ते यत्र तद्बन्धुः नामकं छन्दः कथ्यते ॥ भूषणेऽप्युक्तम्'भयशोभितसंगत कर्ण एकसुसंगतपङ्किकवर्णः । पन्नगराजनिवेदितबन्धू राजति भूपतिसंसदि बन्धुः ॥ ―
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy