SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । १३३ त्रायन्ते वज्रादपि रक्षका महावीरपराक्रमाः सन्ति । अथ च यस्य मम बहुलं धनं धनाधीशप्रतिस्पर्धि । विद्यत इति शेषः । अपि च कुटुम्बिनी वधूः शुद्धमना अकुटिला. न्त:करणा सती भक्ता भर्तजनतत्परा वास्ति । यस्य च मम हत्केण अमुकेति वाङ्मात्रेण भृत्यगणः सेवकवर्गः त्रस्यति । एवं सकलसुखानुभवे सति को वा वर्वरोऽतिवाचाटः स्वर्गे मनः करोति। महीतल एव स्वर्गसुखादपि बहुलतरशर्मलाभादिति भावः ॥ उद्दवणिकायथा-5, ॥, s, I, II, Is, १०४४-४० ॥ यथा वा[णीभूषणे]-'माधवमानय म. त्सविधं किं सखि चिन्तय मित्रवधम् । यत्र करिष्यसि मत्प्रणयं नो मम याति तदासमयम् ॥' एतदनुसारेणोध्वणिकापि प्रदर्यते-5, ॥, su, su, 5, १०x४=४०॥ सारवती निवृत्ता॥ अथ सुषमाछन्दःकण्णो पढमो हत्थो जुअलो कण्णो तिअलो हत्थो पअलो । सोला कलआ छक्का वलआ एसा सुसमा दिट्ठासुसमा ॥ ९७ ॥ [कर्णः प्रथमो हस्तो द्वितीयः कर्णस्तृतीयो हस्तः प्रकटः । षोडश कलाः षड् वलया एषा सुषमा दृष्टासुसमा ॥] हे मुग्धे, यत्र प्रथमः कर्णो द्विगुरुगणः,जुअलो द्वितीयो हस्तः सगणो गुर्वन्तगणो भवति । ततस्तिअलो तृतीयः कर्ण एव, सर्वशेषे हस्तः सगण एव प्रकटो यत्र दशाक्षरचरणे षोडश कला भवन्ति अथ छक्का वलयाः षड् गुरवश्चतस्रः शेषाः रेखा चेत्येवं षोडश मात्रा यत्र सासुसमा प्राणसमा । अतिप्रियेत्यर्थः ॥ भूषणे त्वन्यथोक्तम्-'कर्णो द्विलघुः कर्णो भगणः शेषे गुरुणा पूर्णश्चरणः । यस्यां भवति मुग्धे परमा सैषा सुषमा दीव्यत्सुषमा' ॥ सुषमामुदाहरति--जहा (यथा). भोहा कविला उच्चा णिअला मज्झे पिअला णेत्ताजुअला । रुक्खा वअना दन्ता विरला कैसैं जिविआ जाकी पिअला।।९८॥ [भ्रवः कपिला उच्चं ललाटं मध्ये पीतं नेत्रयुगलम् । रूक्षं वदनं दन्ता विरला कथं जीवति यस्य प्रिया ॥] यस्या भ्रूः कपिला, उच्च ललाटम, यस्याश्च नेत्रयुगलं मध्ये पीतम्। बिडालसदृशमित्यर्थः। अथ च रूक्ष वदनं दन्ताश्च विरला दृश्यन्ते कथं जीवति यस्य त्वमपीदृशी प्रिया भवसीति परमकुत्सितरूपां कराला प्रति कस्याश्चित्कान्तसकलावयवाया वचनम् ॥ उद्दवणिका यथा-ss, us, ss, us, १०४४-४०॥ यथा वा[णीभूषणे]-'एणीनयने केलीकलहे प्रेयान्वद किं किं नो कुरुते । धन्या रमणी सर्वे सहते दुःखं सुखवत्स्वान्ते म. नुते ॥' तदनुसारेणोदृवणिका यथा-5s, ॥, ss, su,s, १०x४-४०॥ सुषमा निवृत्ता॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy