________________
१३२
चम्पकमाला मुदाहरति- जहा (यथा ) -
ओगरभत्ता रम्भअपत्ता गाइक घित्तादुद्धसुजुत्ता ।
मोइणिमच्छा णालिचगच्छा दिज्जइ कन्ता खा पुणमन्ता ॥ ९४ ॥ [शाक्तिभक्तः रम्भाप गोतदुग्धसंयुक्तः ।
मोइणिमत्स्यो नाचिगुच्छो दीयते कान्तया खाद्यते पुण्यवता ॥]
काव्यमाला |
शाल्योदनं गोघृतदुग्धसंयुक्तम्, किंच मोइणिमच्छा मत्स्यविशेषः, नालिचः शाकः, एतत्सर्वं कान्तया स्वहस्तेन रम्भापत्रे कदलीदले दीयते पुण्यवता भुज्यते इति कस्यचिदाद्यूनस्य विदूषकस्य वा सोपहासं वचनमिति ॥ उवणिका यथा — s॥, ss, s, ॥s, s, १०x४=४०॥ चम्पकमाला निवृत्ता ॥
अथ सारवतीछन्द:
दीह लहूजु दीहलहू सारवई धुअ छन्द कहू | अन्त पओहर ठानु धआ चोदहमत्तविरामकआ || ९५ ॥
·
[दीर्घो लघुयुगं दीर्घलघू सारवतीं ध्रुवं छन्दः कथय ।
अन्ते पयोहरं स्थापय ध्वजं चतुर्दशमात्राविरामं ....|| ]
भोः शिष्याः, यत्र प्रथमं दीर्घो गुरुः, तदनन्तरं लहूजुअ लघुद्वयमित्यर्थः । ततोऽपि दीर्घो गुरुः, तदनन्तरमेको लघुः, ततश्चान्ते दीर्घलघ्वारेन्ते पयोधरो जगणो गुरुमध्यमो गणो यत्र । ततोऽपि ध्वजो लध्वादिस्त्रिकलः । एवं दश वर्णाः पादे मात्राश्चतुर्दश च यत्र भवन्ति तद्भुवं निश्चितं सारवतीति छन्दः कथितमिति गुरुर्लघुद्वयं गुरुलघु जगणलघ्वादिस्त्रिकलौ च यत्र तत्सारवतीछन्द इति फलितोऽर्थः ॥ वाणीभूषणे तु प्रकारान्तरेण लक्षणमभिहितं यथा - ' - 'दीर्घलघुद्वयमद्विगणा हारविराजिचतुश्चरणा । पिङ्गलनागमते भणिता सारवती विसार्थहिता ॥ '
सारवती मुदाहरति-- जहा (यथा ) -
पुत्त पवित्त बहुत धणा भत्ति कुटुम्बिणि सुद्धमणा ।
हक तरासइ भिचगणा को कर वव्वर सग्ग मणा ॥ ९६ ॥
[पुत्रः पवित्रो बहु धनं भक्ता कुटुम्बिनी शुद्धमनाः । हक्कारेण त्रस्यति भृत्यगणः कः करोति वर्वरः स्वर्गे मनः ॥] कश्चिच्छालीनगृहस्थः स्वगार्हस्थ्येन संतुष्टो गर्वायते - भो अनुजीविनो लोका हे मिश्रेति वा । यस्य मम पवित्राः शुद्धाः । पितृभक्ता इति यावत् । एवंविधाः पुत्राः पुन्नाम्नो नरकात्रातरस्तनयाः सन्ति । अथ च यस्य ममात्मजाः पवित्राः पविः कुलिशं तस्मादपि