SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । यस्यादौ हस्तो विज्ञातस्तथा द्वौ पयोधरौ ज्ञातौ । गुरुरन्ते पिङ्गलजल्पितं सखि छन्दः संयुता स्थापितम् ॥] हे सुन्दरि, यस्यादौ हस्तः सगणो गुर्वन्तो गणो विज्ञातः । तथा बे द्वौ पयोधरी ज.गणौ मध्यगुरुकगणो ज्ञातौ अन्ते पादान्ते गुरुः । तत्पिङ्गलेन जल्पितं संयुतेति छन्दः स्थापितम् । लोके इति शेषः ॥ सगणजगणद्वयगुरुभिः संयुतेति फलितोऽर्थः॥ तथा च भ. षणे–'सगणं पुरः कुरु शोभितं जगणद्वयं गुरुसंगतम् । फणिनायकेन निवेदिता भवतीह संयुतका हिता ॥' संयुतामुदाहरति-जहा (यथा)तुह जाहि सुन्दरि अप्पणा परितज्जि दुज्जणथप्पणा । विअसन्तकेअइसंपुला ण हु ए वि आविअ वप्पुला ॥ ९२ ॥ [त्वं याहि सुन्दर्यात्मनैव परित्यज्य दुर्जनस्थापनाम् । विकसत्केतकीसंपुटा न खल्वद्याप्यागतो वराकः ॥] काचित्सखी प्रोषितपतिकां नायिकामभिसारार्धे प्रेरयन्त्याह-हे सुन्दरि सर्वावयवरमणीये, दुर्जनस्थापनां कुलीनतारूपव्यवस्थां परित्यज्य अप्पणाआत्मनैव याहि । संकेतनिकुञ्जगतमभिमतमिति भावः । यतः-विकसत्केतकीसंपुटे प्रावृट्काले न खल्वद्याप्यागतः स वराक इति ॥ उध्वणिका यथा-us, is, Is), 5, १०x४-४०॥ [संयुता निवृत्ता ॥] अथ चम्पकमालाछन्दःहार ठवीजे काहलदुज्जे कुन्तिअपुत्ता ऐगुरुजुत्ता । हत्य करीजे हार ठवीजें चम्पकमाला छन्द केहीजे ॥ ९३ ॥ हारः स्थाप्यते काहलद्वयं कुन्तीपुत्र एकगुरुयुक्तः । · हस्तः क्रियते हारः स्थापते चम्पकमाला छन्दः कथ्यते ॥] भोः शिष्याः, यत्र प्रथमं हारो गुरुः स्थाप्यते । ततः काहलद्वयम् । लघुद्वयमित्यर्थः । ततः कुन्तीपुत्रः कर्णो द्विगुरुको गणः । कीदृशः कर्णः । एगुरुजुत्ता एकगुरुयुक्तः । ततो हस्तः सगणो गुर्वन्तगणः क्रियते । पदान्ते हारो गुरुः स्थाप्यते । एवं दश वर्णाः पादे यत्र क्रियन्ते तच्छन्दश्चम्पकमालेति कथ्यते ॥ वाणीभूषणे प्रकारान्तरेणोक्तम्'पादविराजनूपुरयुग्मा कुण्डलशोभासङ्गिसुवर्णा । शङ्खवती हारद्वयपूर्णा चम्पकमाला भाति सुवर्णा ॥' क्वचिदियमेव रुक्मवती, क्वचिच्च रूपवतीति ॥ १. 'णिहु एहि आइहि (निभृतमेवागमिष्यति) इति रवि०. २. 'गुरुसंजुत्ता' इति रवि०. ३. 'करीजे' इति रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy