________________
१३०
काव्यमाला।
मधुमासेऽस्मिन्पश्चमं स्वरं च गायन्ति । अतः प्राप्ते वसन्ते मनोमध्ये मन्मथस्तपति । यद्वा मम मेनो मन्मथस्तापयति । न खलु कान्तोऽद्याप्यायातीति ॥ यथा वा[णीभषणे]'सखि मादके मधुमासि व्रज सत्वरं किमिहासि । सह तेन किं विहरामि किमु पावकं प्रविशामि ॥' उटवणिका यथा-॥s, s, Is), ९x४३६॥ तोमरं निवृत्तम् ॥
अथ रूपामालीछन्दःणाआराआ जप्पे सारा ए चारी कण्णा हन्ते हारा ए । अट्ठादाहा मत्ता पाआए रूआमाली छन्दा जम्पीए ॥ ८९ ॥ [नागराजो जल्पति सारमिदं चत्वारः कर्णा अन्ते हार एकः ।
अष्टादश मात्रा पादे रूपामालाछन्दो जल्प्यते ॥] भोः शिष्याः, नागराजः पिङ्गलः सारमत्युत्कृष्टमिदं छन्दो जल्पति । यत्र च चत्वारः कर्णा द्विगुरवो गणाः, अन्ते पदान्ते हारो गुरुः । ए एकः इत्यर्थः । एवं नवाप्यक्षराणि गुरूणि मात्रावाष्टादश द्विगुणाभिप्रायेण गुरूणां यत्र पादे तद्रूपमालीनामकछन्दः कथ्यते इति ॥ अयं च नवाक्षरप्रस्तारे प्रथमो भेदः । अत एव वाणीभूषणे-'चत्वारोऽस्मिन्कर्णा जायन्ते छन्दस्येकं हारं कुर्वन्ते । रन्ध्रा वर्णाः पादे राजन्ते रूपामालीवृत्तं तत्कान्ते ॥' रूपामालीमुदाहरति-जहा (यथा)-- जं णचे विज्जू मेहंधारा पंफुल्ला णीवा सद्दे मोरा। वाअन्ता मन्दा सीआ वांआ कम्पन्ता गाआ कन्ता णा आ॥९॥ [यन्नृत्यति विद्युन्मेघान्धकारः प्रफुल्लिता नीपाः शब्दायन्ते मयूराः ।
वान्ति मन्दाः शीता वाताः कम्पन्ते गात्राणि कान्तो नायातः ॥] काचित्प्रोषितपतिका सखीमाह-यद्यस्माद्विद्युत्तडिनृत्यति । मेघा अन्धकाराश्च हरितो यस्मात् । यतश्च नीपाः कदम्बाः प्रफुल्लिताः । किं च मयूराः कूजन्ति । केकारवं कुर्वन्तीत्यर्थः । वान्ति मन्दाः शीता वाताः । कम्पन्ते गात्राणि । अतः प्राप्ता प्रावृट् । कान्तः परं नागत इति ॥ यथा वा[णीभूषणे]-'हत्वा शत्रु नृत्यन्ती चण्डं सा चण्डी वः कल्याणं कुर्यात् । देवेन्द्राद्याः प्रीत्या संप्राप्ताः संसेवन्ते यत्पादाम्भोजम् ॥' उदृवणिका यथा-ss, ss, ss, ss, 5, ९x४x=३६॥ रूपामाली निवृत्ता ॥ अत्रापि प्रस्तारगत्या नवाक्षरस्य द्वादशाधिकपञ्चशतभेदेषु सप्त भेदा दर्शिताः । शेषभेदा उहनीयाः सुमतिभिरिति॥
अथ दशाक्षरप्रस्तारे संयुताछन्दःजसु आइ हत्थ विआणिओ तह बे पओहर जाणिओ । गुरु अन्त पिङ्गलजम्पिओ सहि छन्द संजुत थप्पिओ ॥ ९१ ॥ १. 'अहाराहा' इति रवि०. २. 'जा पाए (यत्र पादे) इति रविदासपाठः सम्यक्. ३. 'काआ (कायाः) इति रवि०.