________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।। १२९ सर्वशेषे पादान्ते शिरसि आदौ द्विजश्चतुर्लघुर्गणः, मध्ये विप्रकर्णयोर्मध्ये राजा जगणो गुरुमध्यो गणो यस्मिस्तत्फणिना पिङ्गलेन रचितं बिम्बनामकं छन्द इति ॥ भूषणे तु गणभेदेनोक्तं यथा-'नगणकरगन्धकर्ण भवति नववर्णपूर्णम् । फणिवदनभषणं यद्भवति किल बिम्बमेतत् ॥' बिम्बमुदाहरति-जहा (यथा)
चलइ चल वित्त एसो णसइ तरुणत्तवेसो। सुपुरुसगुणेण बद्धा थिर रहइ कित्ति सुद्धा ॥ ८६ ॥
चलति चलं वित्तमेतन्नश्यति तरुणत्ववेशः ।
सुपुरुषगुणेन बद्धा स्थिरावतिष्ठते कीर्तिः शुद्धा ॥] हे वयस्य राजन् वा, एतच्चलं वित्तं चलति । किं च तरुणत्ववेशस्तारुण्यरूपं न. श्यति । अतः कारणात्सुपुरुषस्य शौयौदार्यगाम्भीर्यमर्यादया प्रभृतिगुणेन बद्धा नद्धा शुद्धा शरच्चन्द्रावदाता स्थिरा कल्पान्तस्थायिनी कीर्तिरवतिष्ठते । वित्तयौवनादिकमतिचञ्चलत्वानश्वरमित्य[तः] कीर्तिमेकामुपार्जयेति राजानं प्रति मित्रं प्रति वा कस्यचिनिपुणमते. र्वचनमिदम् ॥ उवणिका यथा-॥॥, SI, ss, ९४४-३६॥ बिम्बो निवृत्तः ॥ अथ तोमरच्छन्दः
जसु आइ हत्थ विआण तह ब.पओहर जाण । पभणेइ णाअणरिन्द इम माणु तोमरछन्द ॥ ८७ ॥ [यस्यादौ हस्तं विजानीहि तथा द्वौ पयोधरौ जानीहि ।
प्रभणति नागनरेन्द्र एवं मानय तोमरछन्दः ॥] हे कान्ते, यस्यादौ हस्तं सगणं गुर्वन्तं गणं विआण विजानीहि । तथा द्वौ पयोधरौ जगणौ गुरुमध्यमौ गणौ जानीहि । नागनरेन्द्रौ दर्वीकराधारः प्रकर्षण भणतीति तत्प्रामाण्यादेवं तोमराख्यं छन्दो मानय ॥ वाणीभूषणेऽप्युक्तम्-'प्रथमं करं विनिधाय जगणद्वयं च निधाय । इति तोमरं सुखकारि कविराजवक्रविहारि ॥' तोमरमुदाहरति-जहा (यथा)
चलि चूअ कोइलसाव महुमास पञ्चम गाव । मणमज्झ वम्मह ताव ण हु कन्त अज्जु वि आव ॥ ८८ ॥ [चलिताश्चूतं कोकिलशावा मधुमासे पञ्चमं गायन्ति ।
मनोमध्ये मन्मथस्तपति न खलु कान्तोऽद्याप्यायाति ॥] काचित्प्रोषितपतिका वसन्तसमयेऽपि कान्तमनागतं मत्त्वातिनिर्विण्णमानसा साकूतं सखीमाह-हे सखि, कोकिलशावकाः पिकपोतकाश्तं रसालं प्रति चलिताः । अथ च