________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । बन्धुमुदाहरति-जहा (यथा)पाण्डउवंसहि जन्म करीजे संपअ अज्जिय धम्म के दीजे । सो उ जुहिद्विर संकट पाआ देवक लेखिअ केण मिटाआ॥१०२ [पाण्डोवंशे जन्म कृतं संपदमर्जयित्वा धर्मार्थ दत्तम् ।
तेनापि युधिष्ठिरेण संकटं प्राप्तं देवेन लिखितं कः प्रमाष्टिं ॥] पाण्डववंशे जन्म कृतम् । संपदमर्जयित्वा धर्मार्थ दत्तम् । तेनापि युधिष्ठिरेण संकटो वनवासाज्ञातवासलक्षणः प्राप्तः । अतः कारणादेवेन विधात्रा लिखितं कः प्रमाटिं। न कोऽपीत्यर्थः ॥ उद्दवणिका यथा-5॥,su, SI,ऽऽ, ११४४=४४॥ यथा वा[णीभूषणे]'भक्षितवासरनायकचन्द्रः कामिसहस्तसमाहिततन्द्रः । दर्शितलोलतडित्करवालः सोऽयमुपैति घनागमकालः ॥' [बन्धुनिवृत्तः ॥]
अथ सुमुखीछन्दःदिअवर हार लहूजुअला वलअ परिट्ठिअ हत्थअला । पअ कल चोदह जम्प अही कइवर जाणइ सो सुमुही ॥ १०३॥ [द्विजवरो हारो लघुयुगलं वलयः प्रतिष्ठितं हस्ततलम् ।।
पौदे कलाश्चतुर्दश जल्पत्यहिः कविवरा जानीत सा सुमुखी ॥] भोः कविवराः, यत्र प्रथमं द्विजवरश्चतुर्लघुको गणः, ततो हारो गुरुः, ततो लघुयुगलम्, अनन्तरं वलयो गुरुः, ततः प्रतिष्ठितं हस्ततलं सगणो गुर्वन्तगणो यत्र एवं पदे चतुर्दशमात्रा रुद्रवर्णाश्च यत्र तां सुमुखी जानीतेति जल्पत्यहिः शेषनाग इति ॥ वाणीभषणे तु प्रकारान्तरेण लक्षणमभिहितम् । यथा---'नगणचिरालयसद्वितयं कविजनभाषितवृत्तचयम् । प्रभवति शेषसहस्रमुखी विनिगदितेह तदा सुमुखी ॥' सुमुखीमुदाहरति-जहा (यथा)अइबल जुव्वणदेहधणा सिंविअणसोअर वन्धुजणा । अवसउ कालपुरीगमणा परिहर वव्वर पापमणा ॥ १०४ ॥ [अतिचलानि यौवनदेहधनानि स्वप्नसोदरा वन्धुजनाः ।
अवश्यं कालपुरीगमनं परिहर वर्वर पापमनः ॥] कश्चिदतिदुराचारिणं मित्रमुपदिशति-एतानि यौवनदेहधनान्यतिचपलानि, स्वप्न
१. 'करीजे (कृतः)' रवि०. २. 'सोइ (सोऽपि युधिष्ठिरः संकटं प्राप्तः)' रवि०. ३. 'लिक्खण' रवि०. ४. 'समूहसमाहिततन्त्रः' भूषणपुस्तकपाठः. ५. परिकलयादिलघुद्वितयं कुरु सगणत्रितयं विमलम्' इति भूषणस्थपाठः. ६. 'सिरिघर-' (श्रीहं सोदराः) इति रवि०. .