________________
१३६
काव्यमाला।
सहोदराः स्वप्नतुल्या बन्धुजनाः। अथ च अवश्यं कालपुरीगमनम् । अतः कारणाद्धे व. वर वितथभाषिन् , पापे मनः परिहर ॥ उद्दवणिका यथा-,,,5,5,११४४४४॥ सुमुखी निवृत्ता॥ अथ दोधकच्छन्दःचामर काहलजुग्ग ठवीजे हार लहूजुअ तत्थ धरीजे । कण्णगणा पअअन्त करीजे दोधकछन्दहे णाम कहीजे ॥१०॥ [चामरं काहलयुगं स्थाप्यते हारो लघुयुगं तथा धरणीयम् ।
कर्णगणः पदान्ते कर्तव्यो दोधकछन्दो नाम कथ्यते ॥] भोः शिष्याः, यत्र प्रथमं चामरं गुरुः, अनन्तरं काहलयुगं लघुद्वयं स्थाप्यते, ततो हारो गुरुः, तदनन्तरं लघुद्वयम्, ततः तत्य तथा धारणीयम् । हारानन्तरं लघुद्वयं पुनः स्थापनीयमित्यर्थः । पदान्ते च कर्णगणः कर्तव्यः, तद् दोधकामिति छन्दसो नाम कथ्यते। भगणत्रयगुरुद्वयाभ्यां दोधकमिति फलितोऽर्थः॥ अत एव भूषणे-'भत्रितयं यदि कर्णसमेतं पिङ्गलनागसुभाषितमेतत् । पण्डितमण्डलसंहृतचित्तं भामिनि भावय दोधकवृत्तम् ॥' 'दोधकमिच्छति भत्रितयाद्गौ' इति छन्दोमार्यामप्युक्तम् ॥
दोधकमुदाहरति-(जहा) यथापिङ्गजटावलिधौरिअगङ्गा धारिअ णाअरि जेण अधङ्गा । चन्दकला जसु सीसहि णोक्खा सो तुह संकर दिज्जउ सोक्खा१०६ [पिङ्गजटावलिधारितगङ्गा धारिता नारी येनार्धाङ्गे ।
चन्द्रकला यस्य शिरसि रमणीया स तुभ्यं शंकरो ददातु सुखम् ॥] स शंकरस्तुभ्यं सुखं ददातु ।स कः । पिङ्गजटावलीषु स्थापिता गङ्गा येन सः । तथा येनार्धाङ्गेन नारी पार्वती धृता। यस्य शीर्षे [अति]णोक्खा परमरमणीया चन्द्रकला। राजत इति शेषः ॥ उद्दवणिका यथा-5॥,su,su,ss,११४४-४४|| दोधकं निवृत्तम् ॥ __ अथ शालिनीछन्दःकण्णो दुण्णो हार एको विसज्जे सल्ला कण्णा गन्ध कण्णा सुणिज्जे। - वीसा रेहा पाअ पाए गणिज्जे सप्पाराए सालिणी सा पुणीज्जे१०७
कर्णो द्विगुणो हार एको विसृज्यते शल्यः कर्णो गन्धः कर्णः श्रूयते । विंशती रेखाः पादे पादे गण्यन्ते सर्पराजेन शालिनी सा ज्ञाप्यते ॥] १. 'फणिन्द भणीजे (फणीन्द्रो भणति) इति रवि०. २. 'ठाविअ (स्थापित)' इति रवि०. ३. 'ठाविअ (स्थापिता)' इति रवि०. ४. 'महु (मह्यम् ) इति रवि०. ५. 'मु. णिजे (ज्ञायते)' इति रवि०. ६. 'भणिजे (भण्यते) इति भण्यते.