________________
२ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
१३७
भोः शिष्याः, सर्पराजेन पिङ्गलेन सा शालिनी आज्ञप्ता । सा का । यत्र कर्णो द्विगुणो भवति प्रथमं द्वौ कर्णौ द्विगुरुकगणौ, तत एको हारो गुरुर्विसृज्यते । ततश्च शल्यो लघुः, ततोऽपि कर्णः, तदनन्तरं गन्धो लघुः अनन्तरं कर्ण एव श्रूयते । एवं पदे रुद्रसंख्या वर्णा विंशती रेखाः कलाः पादे पादे यत्र गण्यन्ते । सा शालिनीति ॥ वाणीभूषणेऽपि - 'कृत्वा कर्णौ मण्डितौ कुण्डलेन शङ्ख हारं नूपुरं रावयुक्तम् । धृत्वा युग्मं चामरं चाविभाति शालिन्येषा प्रेयसी पिङ्गलस्य ॥' द्वितीयोऽर्थः स्पष्टः ॥ छन्दोमञ्जर्या तु सयतिनियमं गणान्तरेण लक्षणमुक्तं यथा - ' मात्तौ गौ चेच्छालिनी वेदलोकैः' इति ॥
शालिनीमुदाहरति
रण्डा चण्डा दिक्खिदा धम्मदारा मज्जं मांसं पिज्जए खज्जए अ । भिक्खा भोज्जं चम्मखण्डं च सेज्जा कोलो धम्मोकस्स णो भादि रम्मो ॥ [ रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पयिते खाद्यते च ।
---
भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ |] कर्पूरमञ्जरीसाट (सट्ट) कस्थं कापालिक भैरवानन्दस्य वचनं राजानं प्रति — रण्डा विधवा चण्डा परमकोपना दीक्षिता दीक्षितपत्नी अन्याश्च धर्मदाराः । गच्छाम इति शेषः । मद्यं मांसं पीयते खाद्यते च । भिक्षया भोजनम्, चर्मखण्डः शय्या । कौलो धर्मः कापालिकधर्मः कस्य रम्यो रमणीयो न भातीति ॥ उट्टवणिका यथा — Ss, SS, S, I, SS, I, SS, ११x४=४४॥ यथा वा[णीभूषणे ] – 'आरभ्यन्ते शर्मकर्माणि नूनं प्राज्ञैर्लोके वाच्यतामा - त्रभीतैः । तन्निष्पत्तौ वासुदेवः प्रमाणं को वा वक्ता कृत्यकर्ताहमस्मि ॥' शालिनी निवृत्ता ॥ अत्रैव 'वातोर्मीयं गदिता म्भौ तगौ गः' इति ग्रन्थान्तरे ॥ तत्र यदि पूर्व म्भौ मगणभगणौ, अथ च तगौ तगणगुरू भवतः, ततश्च गो गुरुर्भवति । तदा इयं वातोर्मी गदिता तन्नाम वृत्तमुक्तमित्युक्तम् ॥ यथा - 'ध्याता मूर्तिः क्षणमप्यच्युतस्य श्रेणी नाम्नां गदिता हेलयापि । संसारेऽस्मिन्दुरितं हन्ति पुंसां वातोर्मी पोतमिवाम्भोधिमध्ये ॥' उवणिका यथा—sss, sil, SSI, SS, ११x४=४४ ॥ अत्रानयोर्वृत्तयोरेकत्र पञ्चमो वर्णो गुरुरन्यत्र च लघुरिति स्वल्पो भेद इति कृत्वा चतुर्दशोपजातिभेदा उत्तरत्र दर्शयिष्यमाणपरिपाट्या विज्ञातव्या इति सूच्यत इत्यलमतिविस्तरेणेति ॥
अथ दमनकच्छन्दः
و
दिअवरजुअलहुजुअलं पअ पक्ष पअलिभवलअम् ।
चउपद चउवसुकलअं दमणअ फैणि भण ललिअम् ॥ १०९ ॥ [द्विजवरयुगं लघुयुगलं पदे पदे प्रकटितवलयम् । चतुष्पदेऽष्टचत्वारिंशत्कलं दमनकं फणी भणति ललितम् ॥]
१. 'भण फणिभणिअम्' इति रवि ०.
१८