SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३८ काव्यमाला। भोः शिष्याः, यत्र प्रथमं द्विजवरयुगं चतुर्लघुकगणद्वयम्, ततो लघुद्वयं पदे पदे अन्ते प्रकटितो वलयो गुरुयंत्र । एवं पदचतुष्टयेऽष्टचत्वारिंशत् ४८ कला यत्र, तद्दमनकमतिललितं छन्दो भवतीति फणिपतिः पिङ्गलो भणति । द्विजवरद्वयसगणाभ्यां दमनकं छन्द इति फलितोऽर्थः ॥ तथा च भूषणे-'द्विजवरगणयुगममलं तदनु च कलय करतलम् । फणिपतिवरपरिगणितं दमनकमिदमतिललितम् ॥' इति ॥ दमनकमुदाहरति-जहा (यथा)परिणअससहरवअणं विमलकमलदलणअणम् । विहिअअसुरकुलदलणं पणमह सिरिमहुमहणम् ॥ ११० ॥ [परिणतशशधरवदनं विमलकमलदलनयनम् । विहितासुरकुलदलनं प्रणमत श्रीमधुमथनम् ।।] भो लोकाः, श्रीमधुमथनं कृष्णं प्रणमत । कीदृशम् । परिणतस्य परिपूर्णषोडशकलस्य शशधरस्येव वदनं यस्य तम् । पुनःविमलकमलदलवन्नयनं लोचनं यस्य तम् । विहितमसुरकुलानां दनुजकुलानां दलनं कृतं येन तम् ॥ यथा वाणीभूषणे]-'प्रणमत मधुरिपुचरणं भवजलनिधिपरितरणम् । अभिनवकिसलयरुचिरं सुरपतिसकलभयहरम् ॥' इति ॥ उद्दवणिका यथा-॥m, n, us, ११४४-४४ ।। दमनकं निवृत्तम् ॥ अथ सेनिकाछन्दःताल णन्दएसमुद्दतूरआ जोहलेण एहु छन्द पूरआ। गारहाइ अक्खराइ जाणिआ णाअराअजम्पिएअ सेणिआ॥११॥ [ताल आनन्दसमुद्रतूर्यां जोहलेनैतच्छन्दः पूरणीयम् । एकादशाक्षरां जानीत नागराजजल्पितां सेनिकाम् ॥] भोः शिष्याः, यत्र प्रथमं ताल आदिगुरुस्त्रिकलः । तत एवं णन्दसमुहतूरआ आनन्दसमुद्रतूर्याख्या आदिगुरवस्त्रिकला एवं ततश्च जोहलेन रगणेन मध्यलघुकगणेनैतच्छन्दः पूरणीयम् । अत्र च-एकादशाक्षराणि पादे ज्ञातव्यानीति नागराजेन पिङ्गलेन जल्पितां सेनिकां जानीत इति ॥ 'श्रेण्युदीरिता रजौ रलौ गुरुः' इति छन्दोमार्यो गणभेदेन नामान्तरमुक्तम् ॥ वाणीभूषणे तु–'हारशङ्खमण्डनेन मण्डिता या पयोधरेण वान्त्य अङ्किता। रूपनुपुरेण चातिदुर्लभा सेनिका भुजङ्गराजवल्लभा ॥' गुरुलघुक्रमेणैकादशापि वर्णा यत्र सा सेनिका । सैव च यदा हारशङ्खविपरीताभ्यां रूपनपुराभ्यां लघुगुरुभ्यां क्रमशो मण्डिता सती वसुवर्णानन्तरं च यदि रगणविपरीतेन पयोधरेण जगणेनाङ्किता भवति तदा सा भुजङ्गराजवल्लभातिदुर्लभा सेनिका भवतीति विपर्ययेण सेनिकाच्छन्दोद्वयमुक्तमिति ॥ १. 'यस्यां तालो गुरुनन्दो लघुः समुद्रसंख्यस्थाने स्थानचतुष्टये' इति रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy