________________
२ परिच्छेदः) प्राकृतपिङ्गलसूत्रम् ।
सेनिकामुदाहरति-जहा (यथा)झत्ति पत्तिपाअ भूमि कम्पिआ टप्पु खुन्दि खेह सूर झम्पिआ । गौडराअ जिण्णि माण मोलिआ कामरूअराअबन्ध लोडिआ ११२ [झटिति पत्तिपादैर्भूमिः कम्पिता टापोत्खातधूलिभिः सूर्यश्छादितः ।
गौडराजं जित्वा मानो मोटितः कामरूपराजबन्दी मोचिता ॥] कश्चिद्वन्दी कर्णनरपतिं स्तौति-स कर्णो जयतीति युग्मकेनान्वयः । स कः । झटिति पत्तीनां पतत्पादाघातेन भूमिः कम्पिता । यस्य । तथा यः स्वतुरगाणां टापोत्खातधूलीजालैः सूर्योऽपि समाच्छन्नः । येन च गौडराज जित्वा तस्य मानोऽहंकारो मोटितः । येन कामरूपराजस्य बन्दीकृता वनिता मोचिता ॥ यथा वा[णीभूषणे] —'साधुधाष्टबाहुराजिमण्डिता रक्तबीजरक्तपानपण्डिता । चण्डमुण्डशुम्भदम्भखण्डिका मङ्गलानि नो ददातु चण्डिका ॥' उट्वणिका यथा-si,si, SI, SI, SI, SI, ११४४-४४॥ हारशङ्खविपरीतरूपनूपुररूपः सेनिका यथा-'मुदा पदं सदा वहे महेश तवापि काममद्भुतं गणेश । करालभालपट्टिकाविशाल भजे मदीयहृत्सरोमराल ॥' उट्टवणिका यथा।ऽ।ऽ।ऽ।ऽ।ऽ।, ११४४४४ ॥ सेनिका निवृत्ता ॥
अथ मालतीछन्द:कुन्तीपुत्ता पञ्चा दिण्णा जाणीआ अन्ते कन्ता एका हारा माणीआ । पाआ पाआ मत्ता दिट्ठा बाईसा मालत्तीछन्दा जम्पन्ता णाएसा ११३
[कुन्तीपुत्राः पञ्च दत्ता ज्ञायन्ते अन्ते कन्त एको हारो मान्यते । पादे पादे मात्रा दृष्टा द्वाविंशतिर्मालतीछन्दो जल्पति नागेशः ॥] भोः शिष्याः, यत्र कुन्तीपुत्राः पञ्च कर्णाः शरसंख्यया दत्ता ज्ञायन्ते, अन्ते च कर्णानामवसाने कान्तः सुन्दर एको हारो गुरुर्मान्यते अभ्यर्हितः क्रियते । एवमेकादशापि वर्णा यत्र गुरवः क्रियन्ते । अत एव पादे पादे गकारद्वैगुण्येन द्वाविंशतिर्मात्रा दृष्टाः । तन्मालतीनामकं छन्दो नागेशः शेषः पिङ्गलो जल्पतीति ॥ भूषणे तु-'आदौ चत्वारोऽस्या कर्णा देश्यन्ते शेषे यस्यां रामा हारा जायन्ते । रुदैर्वणः पादे पादे संख्याता मालत्येषा वाणीभूषा विख्याता ॥' ___ मालतीमुदाहरति-जहा (यथा)ठामा ठामा हत्थीजूहा देक्खीआ णीला मेहा मेरुसिङ्गा पिक्खीआ । वीरा हत्थे अग्गे खग्गा रज्जन्ता णीलामेहामज्झे विज्जू णञ्चन्ता॥
१. अस्य चरणस्य लक्ष्मीनाथीव्याख्यायुतपुस्तके त्रुटितत्वाद्रविदासीव्याख्यापुस्तकानुसारेण लेखनं कृतमिति ज्ञेयम्. २. 'कामरूपराजबन्धो मोचितः' इति रवि०. ३. 'जायन्ते' इति भूषणपुस्तकपाठः. ४. 'राजन्ते' इति भूषणपुस्तके.