________________
१४०
काव्यमाला।
स्थाने स्थाने हस्तियूथा दृश्यन्ते नीला मेघा मेरुशृङ्गे प्रेक्ष्यन्ते ।
वीराणां हस्ताने खड्गो राजते नीलमेघमध्ये विद्युन्नत्यन्ती ॥] स्थाने स्थाने हस्तियूथा दृश्यन्ते यथा मेरुशृङ्गे नीला मेघाः प्रेक्ष्यन्ते । अपि च वीराणां हस्ताग्रे खड्गो राजते नीलमेघमध्ये नृत्यन्ती विद्युदिवेति ॥ यथा वा[णीभूषणे'पायान्मायामीनो लीनः कल्पान्ते प्राग्दिक्क्षोणीभर्तुः पाणिक्रोडे यः । व्याप्ताम्भोधिस्तस्मिन्काले लीलाभिः सम्यक्सर्वोषध्या यत्पृष्ठे तिष्ठन् ॥' उद्दवणिका यथा-ss,ss, ss, ss, ss, 5, ११४४-४४॥ मालती निवृत्ता॥
अथेन्द्रवज्राछन्दःदिज्जे तआराजुअला पएसु अन्ते णरेन्दो गुरुजुग्ग सेसम् । जम्पे फणिन्दाधुअ इन्दवज्जा मत्ता दहा अट्ठ समा सुसज्जा।।११५ [दीयते तकारयुगलं पदेषु अन्ते नरेन्द्रो गुरुयुगं शेषे ।
जल्पति फणीन्द्रो ध्रुवमिन्द्रवज्रा मात्रा दशाष्ट समा सुसज्जा ॥] भोः शिष्याः, यत्रादौ दीयते तकारयुगलं तगणयुगलं पदेषु चतुर्ध्वपीत्यर्थः । अन्ते तकारयु. गलावसाने नरेन्द्रो जगणो गुरुमध्यमो गणस्तस्यापि शेषे गुरुयुगं तद्भुवं निश्चितमिन्द्रवज्राख्यं छन्दः इति फणीन्द्रो जल्पति । मात्राश्चाष्टादशात्र पादे भवन्ति । समा नाधिका इत्यर्थः । सुसज्जा शोभनीकृत्य लिखिता इत्यर्थः ॥ अत एव छन्दोमार्याम् –'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इत्युक्तम् ॥ वाणीभूषणे तु–'कर्णध्वजौ गण्डमृगेन्द्रहारा भवन्ति तस्याश्वरणे समास्ते । तामिन्द्रवज्रामतिमात्रकान्तां भोगीन्द्रवक्राब्जमरन्दधाराम् ॥' इन्द्रवज्रामुदाहरति-जहा (यथा)मन्तं ण तन्तं ण हु किं पि जाणे ज्झाणं च णो किं पि गुरुप्पसाओ। मज्जं पिआमो महिलं रमामो मोक्खं च जामो कुलमग्गलग्गा ११६ [मन्त्रं न तन्त्रं न खलु किमपि जाने ध्यानं च न कोऽपि गुरुप्रसादः ।
मयं पिबामो महिलां रमामो मोक्षं च यामो कुलमार्गलग्नाः ॥] कर्पूरमञ्जरीसाटकस्थं भैरवानन्दकापालिकस्य राजानं प्रति वचनम्-अहं मन्त्रं तन्त्रं वा खलु निश्चयेन उभयोर्मध्ये किमपि न जाने, ध्यानं च न जाने, कोऽपि गुरुप्रसादो नो ' नास्तीत्यर्थः । तर्हि किं जानासीत्यत आह-मयं पिबामः, महिलां रमामः, कौलमार्गलमा मोक्षं व्रजाम इति ॥ यथा वा[णीभूषणे]-'रक्ताम्बुदेनोदितलम्बमाला शीतां. शुचण्डातपकुण्डलाभ्याम् । तारांशुतारावलिहृद्यहारैः स्वीयां श्रियं भूषयतीव संध्या ॥' उध्वणिका यथा-ऽऽI, ISI, Is), SS, ११४४४४ ॥ इन्द्रवज्रा निवृत्ता ॥
१. 'दिजेइहीराजुअला पदासु (हीरकयुगलं पदेषु दीयते। हीर इति पञ्चकलगणस्य नाम)' रति ति.