SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथोपेन्द्रवज्राछन्दःणरेन्द एक्का तअणा सुसज्जा पओहरा कण्णगणा मुणिज्जा । उविन्दवज्जा फणिराअदिट्ठा पढन्ति छेआ सुहवण्णसट्ठा ॥११७॥ नरेन्द्र एकस्तगणः सुसज्जः पयोधरः कर्णगणो ज्ञातव्यः । उपेन्द्रवज्रां फणिराजदृष्टां पठन्ति छेका शुभवर्णसाटकम् ॥] भोः शिष्याः, यत्रादावेको नरेन्द्रो जगणो गुरुमध्यमो गणः, ततः सुतरां सजस्तगणोऽन्तलघुर्गणः, तदनन्तरं पयोधरो जगण एव । ततः कर्णगणो ज्ञातव्यः । तदुपेन्द्रवजानामकं फणिराजेन पिङ्गलेन दृष्टं शुभं वर्णसाटकं वर्णरचितपद्यं छेका विदग्धाः पठन्ति । प्राकृते साटकं पद्यपर्यायम् ॥ अत एव छन्दोमञ्जर्याम्–'उपेन्द्रवज्रा प्रथमे लघौ सा' इत्युक्तम् ॥ वाणीभूषणे तु- पयोधरं हारयुगं दधाना करं सशङ्ख वलयद्वयं च । उपेन्द्रवज्रा भुजगैकसारा विराजते पन्नगराजकान्ता ॥ द्वितीयोऽर्थः स्पष्टः ।।। उपेन्द्रवज्रामुदाहरति-जहा (यथा)सुधम्मचित्ता गुणमन्त पुत्ता सुकम्मरत्ता विणआ कलत्ता। विसुद्धदेहा धणमन्तगेहा कुणन्ति के वव्वर सग्गणेहा ॥११८॥ [सुधर्मचित्ता गुणवन्तः पुत्राः सुकर्मरक्तं विनीतं कलत्रम् । विशुद्धदेहा धनवद्रोहाः कुर्वन्ति के वर्वराः स्वर्गस्नेहम् ॥] यस्य सुधर्मे चित्तं येषामेवंविधा गुणवन्तः पुत्रा सुकर्मरक्तं विनीतं कलत्रं चेद्भवति, स्वयं च विशुद्धदेहा नीरोगशरीराश्च भवन्ति चेत् । धनयुक्तगृहाश्चेत्, तदा कुर्वन्ति के वा वर्वराः स्वर्गाकानां स्वर्गे स्नेहं कुर्वन्ति । एतादृशसामग्रीयुक्तानां पुरुषाणां भूलोकः स्वर्गादप्यतिरिच्यते इति ॥ यथा वाणीभूषणे]—'न षट्पदश्रेणिभिरेणदृष्टेर्न वा नवाम्भो. धरकन्दलीभिः । अतुल्यता स्यात्कबरीलतेति दिवा समुन्मीलति नान्धकारः ॥' उठ्वणिका यथा-15), 551, ISI, ss, ११४४४४ ॥ उपेन्द्रवज्रा निवृत्ता ॥ अथोपजातयःइन्द उविन्दा एक करिज्जसु चउअग्गल दह णाम मुणिज्जसु । समजाइहिं समअक्खरदिज्जसुपिङ्गलभण उवजाइहि किज्जसु११९ (इन्द्रोपेन्द्रे एकं कुरु चतुरधिकं दश नाम जानीहि । - समजातौ समान्यक्षराणि दहि पिङ्गलो भणत्युपजातिं कुरु ॥] इन्द्रवज्रोपेन्द्रवज्रे छन्दसी एकं कुरु चतुरधिकं दश नाम १४ जानीहि । समजातौ समान्येवाक्षराणि देहि पिङ्गलो भणति । एवमुपजाति कुविति । पादाकुलकं छन्दः ॥ १. रविदासेन न व्याख्यातम् .
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy