________________
१४२
काव्यमाला।
तत्र चतुर्दशोपजातिभेदानयनप्रकारमाहचउअक्खरके पत्थर किज्जसु इन्दउविन्दा गुरुलहु बुज्झसु । मज्झहिं चउदह हो उवजाइ पिङ्गल जम्पइ कित्ति वेलाइ ॥१२०॥ [चतुरक्षरस्य प्रस्तारं कुरु इन्द्रोपेन्द्रयोलघुगुरूजानीहि ।
मध्ये चतुर्दश भवन्त्युपजातयः पिङ्गलो जल्पति किमिति व्याकुलाः॥] चतुरक्षरस्य प्रस्तारं कुरु इन्द्रोपेन्द्रवज्रयोः लघुगुरूंश्च जानीहि । मध्ये सर्वगुरुसर्वलध्वो. रन्तराले चतुर्दशोपजातयो भवन्तीति पिङ्गलो जल्पति किमिति व्याकुलीभवथ शिष्या इति॥ अयमर्थः-चतुरक्षरप्रस्तारस्तावत्षोडशविधः । तत्र गुरुचतुष्टयेनेन्द्रवज्रायाश्चतुष्पादज्ञानम् । चतुर्वपि पादेष्विन्द्रवज्राया आदौ गुरुरिति शेषे नलघुचतुष्टयेनोपेन्द्रवज्रायाश्चतुलपि पादेष्वादौ लघुरिति पादचतुष्टयज्ञानं भवति । मध्ये चोपेन्द्रवज्रापादमादिं कृत्वा चतुर्दशोपजातयो भवन्तीति ॥ पादाकुलकं छन्दः ॥ वाणीभूषणेऽपि–'उपेन्द्रवज्रापदसंगतानि यदीन्द्रवज्राचरणानि च स्युः । तदोपजातिः कथिता कवीन्द्र/दा भवन्तीह चतुर्दशास्याः ॥ इति ॥ उपजातिमुदाहरति जहा (यथा)बालो कुमारो स छमुण्डधारी उप्पाअहीणा हउँ एक णारी । अहण्णिसं खाहि विखं भिखारी गइ भवित्ती किल का हमारी१२१
बालः कुमारः स षण्मुण्डधारी उपायहीनास्म्येका नारी ।
अहर्निशं खाद विषं भिक्षुकगतिर्भवित्री किल कास्माकम् ॥] गौरी शिवं प्रत्याह-बाल: कुमारः स्कन्दः स षण्मुण्डधारी । षण्मुख इत्यर्थः । उपायहीना अर्जनासमर्थाहमेकला नारी । हे भिक्षुक शिव, त्वमनिशं विषं खाद भक्षय। गतिर्भवित्री किल का । अस्माकं षण्मुखधारिणो बालकस्य भोजनमत्यावश्यकमित्येकलाया मम का वा गतिर्भविष्यति तन्न वेद्मि । तव तु भिक्षुकस्य गरलभोजनेनापि क्षुत्पतिकारदर्शनादिति भावः । 'बालो-' इत्यत्र 'उत्पाअ-' इत्यत्र च पादद्वये इन्द्रवज्राया लक्षणम् , पादद्वये चोपेन्द्रवज्राया लक्षणमिति द्वादशी रामाख्येयमुपजातिरिति । अ. न्याश्चोपजातयः सुबुद्धिभिराकरेषु मत्कृतोदाहरणमञ्जर्या च द्रष्टव्या इति ॥ अत्र च 'बाल: कुमारः' इति 'गतिर्भवित्री' इति सविसर्ग केचित्पठन्ति । स च विसर्गो न दोषाय लौकिकभाषाया अनियमात् । संस्कृतमिश्रणाद्वति सिद्धान्तः ॥ चतुर्दशानामप्युपजातीनां नामान्याहकित्ती वाणी माला साला हंसी माआ जाआ बाला । अद्दा भद्दा पेम्मा रामा रिद्धी बुद्धी तासू णामा ॥ १२२ ॥