Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
'सहशरनिधिजं तथा कार्मुकम्' इत्यादि भारवौ । 'अतिसुरभिरभाजि पुष्पश्रिया' इति माघे ॥ उध्वणिका यथा-॥ ॥, ss, SIS, १२४४ = ४८ ॥ मन्दाकिनी निवृत्ता ॥ अथ कुसुमविचित्राछन्दः
नयसहितौ न्यौ कुसुमविचित्रा ॥ १५४॥ यत्र नगणयगणसहितौ न्यौ नगणयगणावेव भवतः, तत्कुसुमविचित्रानामकं वृत्तं भवतीति ॥ यथाविपिनविहारे कुसुमविचित्रा कुतुकितगोपी पिहितचरित्रा । मुररिपुमूर्तिर्मुखरितवंशा चिरमवताद्वस्तरलवतंसा ॥ उवणिका यथा-1, Iss, m, iss, १२४४ = ४८ ॥ कुसुमविचित्रा निवृत्ता॥ अथ तामरसच्छन्दः
इह वद तामरसं नजजा यः ॥ १५५ ॥ हे कान्ते, यत्र नगणजगणजगणाः, अथ च यो यगणो यदि भवति, तदा तामरसाख्यं वृत्तं वद ॥ यथा
स्फुटसुषमा मकरन्दमनोज्ञ व्रजललनानयनालिनिपीतम् ।
तव मुखतामरसं मुरशत्रो हृदयतडागविकासि ममास्तु ॥ उद्दवणिका यथा-1, Isi, Is), Iss, १२४४ = ४८ ॥ तामरसं निवृत्तम् ॥ अथ मालतीछन्दः
भवति नजावथ मालती जरौ ॥ १५६॥ यत्र नजौ नगणजगणौ, अथ च-जरौ जगणरगणौ भवतः सा मालतीछन्दो भवतीति॥ यथा
इह कलयाच्युत केलिकानने मधुरससौरभसारलोलुपः।
कुसुमकृतस्मितचारुविभ्रमामलिरपि चुम्बति मालती मुहुः ॥ कुत्रचिदियमेव 'यमुना' इति ॥ 'अपि विजहीहि दृढोपगृहनम्' इति भारवौ ॥ उहवणिका यथा-1, Is, SI, SIS, १२४४ = ४८ ॥ मालती निवृत्ता ॥ अथ मणिमालाछन्द:
त्यौ त्यौ मणिमाला छिन्ना गुहवः ॥ १५७ ॥ यत्र प्रथमं त्यौ तगणयगणो, अथ च त्यौ तगणयगणावेव भवतः सा गुहवः षडाननाननैश्छिन्ना जातविश्रामा मणिमाला तन्नामकं वृत्तमित्यर्थः ॥

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256