Book Title: Nandanvan Kalpataru 2006 00 SrNo 16 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 9
________________ वाचकानां प्रतिभावः आदरणीयां नन्दनवनकल्पतरुसम्पादिकां कीर्तित्रयीं सादरं नमामि । पञ्चदशी शाखा प्राप्ता, तदर्थं धन्यवादाः । अत्र महावीराष्टकं भवत्या प्रकाशितम्, तदर्थम् अहम् आभारं प्रकटयामि । अत्र प्रास्ताविकम् अध्यात्मगुणत्वेन मननीयम् । आचार्य रामकिशोरमिश्रविरचितं पाणिन्यष्टकं मनोहरं पाणिनीयसूत्रप्रयोगेण च सारगर्भितमस्ति । मुनिरत्नकीर्तिविजयदर्शिताः पञ्चत्रिंशद् गुणाः पठनीया मननीयाः पालनीयाश्च सन्ति । श्रीदेवचन्द्रसूरिविरचितप्राकृतभाषामय 'सिरिसंतिनाहचरिय' ग्रन्थाद् मुनिकल्याणकीर्तिविजयेन सङ्कलिता 'दैवविलसितं ' नाम कथा पठनीया वर्तते । स्वपत्नीसेवया प्रसन्नः पञ्चाननवाचस्पतिमिश्रः स्वगणितग्रन्थस्य नाम भामतीम् अकरोत् । सा भामतीकथा रोचिका विद्यते । अस्मिन्नन्दनवनकल्पतरौ प्रकाशित: प्राकृतविभागः प्रशंसनीयविशेषः । अहं नन्दनवनकल्पतरुप्रकाशनं निरन्तरं कामये । भवदीयः - राजेशकुमार मिश्रः अध्यापक:- राजकीय इण्टर कॉलिज, नागराजाधार: (बमुण्ड), पत्रालय: कखबाड़ी, वाया - चम्बा (टिहरी गढ़वाल:) उत्तराञ्चलप्रदेश: - २४९१४५ अर्हम् नमः कर्णावतीं प्रति विद्वद्वर्याचार्य श्रीविजयशीलचन्द्रसूरिमहाराज ! वन्दना स्वीकार्या । भवत्संपादितनन्दनवनकल्पतरुपुस्तकानि अस्माभिः प्राप्तानि । युष्मदीया संस्कृतसाहित्यविषयिणी सेवा सुतराम् अनुमोदनीया अस्ति । एतत्पुस्तकानि संस्कृतस्य अध्यापकानाम् तथा अध्येतॄणाम् कृते उपयोगीनि । Jain Education International मुनिवैराग्यानन्दविजयः C/o. अमृतभाई कुबडीया ११ - २०२, शत्रुञ्जय पार्क तलेटी रोड, जि. जामनगर, पालीताणा 8 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 114