Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 70
________________ जनप्रियत्वं सुखाय वा दुःखाय वा मुनिधर्मकीर्तिविजयः कस्यचिनगरस्य बहिर्भागे एको विख्यात आश्रमोऽस्ति । तत्र सर्वतो विशालो - जनसमुदाय उपस्थितोऽस्ति । सर्वे जना गृहापणादिकं जलान्नादिकं च सर्वमपि विहायाऽऽदीर्घकालात् तत्रैवाऽऽसीनाः सन्ति । ते सर्वेऽपि शोकाकुला उद्विग्नाश्च दृश्यन्ते । तत्र केचिज्जना रुदन्ति, केचित् प्रभुनामस्मरणं कुर्वन्ति, केचिद् ललाटोपरि हस्तं संस्थाप्य दीनवदनाः शून्यमनस्काश्च स्थिताः सन्ति । केचित् शिक्षिता धनिकाः प्रौढजनाश्च परस्परं चर्चा कुर्वन्ति - "एष साधुर्मेधावी प्रवक्ता प्रभावकश्चाऽस्ति । तेन वाक्कौशलेन कियन्तः पापिनो दुर्जनाश्च दुराचार-दुर्व्यसनादिकुमार्गात् प्रतिनिर्वर्त्य सन्मार्गे स्थापिताः । आर्यसंस्कृते रक्षणार्थं विविधान्यायोजनान्यपि कारितानि । एवं बालकानां संस्कारवृद्ध्यर्थमेकः प्रकल्पोऽपि विहितः । एवमेतेन साधुना समाजोपयोगीनि बहूनि कार्याणि कृतानि सन्ति । अद्याऽकस्मादेव तस्य देहे प्रातिकूल्यं सञ्जातम् । यदि नाम यत्किमप्यघटनीयं भवेत्तर्हि सर्वोऽपि समाजो निराधारो भविष्यति, हा, हा किं भविष्यती"ति । एवं वातावरणे सर्वत्राऽशान्तिराक्रन्दतोद्विग्नता चैव प्रवर्तते । आश्रमे एकस्मिन्नपवरके स साधुः काष्ठफलकोपरि सुप्तोऽस्ति । चिन्ताग्रस्ताः सर्वेऽपि शिष्याः समीपे स्थिताः सन्ति । ते यथायोग्यं शुश्रूषामपि कुर्वन्ति । प्रकोष्ठस्य बहिः तत्साधोः प्रमुखाः कोटिपतयो भक्तजनाः स्थितवन्तः । ते च "अमुक आंग्लचिकित्सकः श्रेष्ठोऽस्ति, अपरः त्वतिनिपुणोऽस्ती" ति परस्परं चर्चा कुर्वन्ति । ____ तावदेव कश्चिद् भक्तजनो नगरस्याऽनुभविनं वैद्यराजमानीयाऽऽगतवान् । विशालं जनवृन्दं श्रेष्ठिनश्च निरीक्ष्य 'एष साधुर्विश्रुतो महाँश्चाऽस्ती'ति निर्णीतवान् स वैद्यराजः । अन्तः प्रविश्य साधोदेहस्य परीक्षणं करोति । तदात्वे 'को रोगः स्यात् ? वैद्यराजः किं KI कथयेद्वा ?' इति ज्ञातुं सर्वेऽपि भक्तजना वैद्यराजं परितः संमीलिताः । तदैवैको भक्तो मिथ्याभिमानेन वदति - वैद्यराज ! यत्किमपि करणीयं तत् कथयतु । धनस्य चिन्तां मा करोतु । X ५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114