Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
बम तत्र झम्पां दातुं यावदुयुक्तस्तावत् कुमारेण सहसैव भुजं धृत्वा निरुद्धः कथितश्च 'देव ! 5 * मा साहसं कार्षीत्, अत्र प्रवेशेन तु निश्चप्रचं मरणं भवेत् । इयन्तं कालं यद् भवान् मया
प्रतारितस्तदर्थं क्षमतां कृपया । एते मन्त्रिणस्तु मम नाशने उद्युक्ता आसन्, अत एव मया 55 तेऽग्नौ पातयित्वा विनाशिताः ।'
एतच्छ्रुत्वा वैलक्ष्यमनुभवन् राजा स्वस्थानमागतश्चिन्तयति स्म च 'नूनमहो ! अस्य * चरितं तु किञ्चिदमानुषमस्ति । अतोऽस्मै मम सुरसुन्दरी नाम कन्यां दत्त्वाऽस्य राज्यस्य
स्वामिनमपि करोम्येनम् । तथाऽहं तु प्रव्रज्यां गृहीत्वा स्वकार्यं साधयामि । यतस्तया - दुष्टचिन्तया मया बहु पापमुपार्जितमस्ति, स्वात्मा च लघूकृतोऽस्ति जनमध्ये ।'
ततस्तेन महाविभूत्या सुरसुन्दर्या विवाहस्तेन सह विहितः सर्वमपि च महाजन ससामन्तामात्यं सप्रजाजनं चाऽऽकार्य कथितं 'शृणुत भोः सर्वे ! वत्सराजकुमारमेनमहं
ममोत्तराधिकारित्वेन नियोज्य राज्येऽभिषेक्तुमिच्छामि । अद्यप्रभृत्ययमेव वो राजाऽस्ति । - अतोऽभिषेकयोग्यां सामग्री मेलयतु सत्वरम् ।' सर्वैरपि सानन्दं ससम्भ्रमं च सामग्री
मेलिता। ततः प्रधाने मुहूर्ते उत्तमे च लग्ने वत्सराजं राज्येऽभिषिच्य राजा व्रतं गृहीतवांस्तापसश्च र ** सञ्जातः ।
वत्सराजोऽपि च राजा भूत्वा स्वपराक्रमेण बहून् देशानेकच्छवान् विधाय म महाराजत्वमनुभवति स्म । अथैकदा करधृतवरलेखो नरः कश्चिद् राजसभामागतो विज्ञपयति
स्म च ‘देव ! अहं क्षितिप्रतिष्ठितनगरादागतोऽस्मि । नगरजनैरेष लेख: "देवपादेभ्यः * समर्पयत्वेत"मित्युक्त्वा प्रेषितोऽस्ति । इदानी देव एव प्रमाणम् ।' ततस्तेन स लेखो
नृपपादमूले स्थापितः । ततो राजादिष्टोऽमात्यस्तमुन्मुद्र्य राज्ञा सह विमर्श कृत्वा च * * सर्वप्रत्यक्षं वाचितवान् यथा
"स्वस्ति ।। भूरिसुरालयशिखराग्रविन्यस्तध्वजदण्डप्रान्तासक्तसितसिचयप्रच्छादितनभस्तलाभोगायामनवरतगीत-नृत्योत्सवमुदितसकलजनतायां निरन्तरदन्दह्यमानकालागुरु
प्रभृतिप्रवरधूपधूमान्धकारजलदागमविप्रलब्धसततप्रभूतशिखण्डिनिकुरम्बरुतप्रलम्बकेकायां A ॐ श्रीमदुज्जयिन्यां महापुर्यामनवरतप्रणतमहासामन्तशिरोधत्तमहाकिरीटकोटितटघटितकरोत्कट
महामाणिक्यचयचुम्बनमसृणीकृतपादपीठं महाराजेश्वरं श्रीमन्तं श्रीवत्सराजं श्रीक्षिति
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114