Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विरुद्धमाचरति स मनसिकृत्य राजरोग(T.B.)-मधुप्रमेह-अर्बुदरोगइत्यादीननेकान् रोगानामन्त्रयति, इति ज्ञेयम् ।
__भोः ! त्वं प्रकृत्या सह यथा व्यवहरसि तथैव साऽपि त्वया सार्धं (A व्यवहरति । त्वया वृक्ष-वन-गिरि-इत्यादिकं सर्वं नाशितम् । नदी-निर्झरजलाशय-कूपश्चेत्यादयः सर्वे शोषितास्त्वया । इदानीं प्रकृतेरेकमप्यङ्गमेतादृशं नाऽवशिष्टं यस्य नाशो न कृतस्त्वया । किन्त्वेतद् ज्ञेयं यत्, प्रकृत्या यस्य कस्याऽप्यङ्गस्य नाशस्तवैव विनाशस्य कारणं भवति । पश्य, अद्य मुहुर्मुहुर्भूकम्पअतिवृष्टि-अवृष्टि-झञ्झावात-त्सुनामी-इत्यादिका नरसंहारिका घटना जायन्ते । । "प्रकृतिविनाश" एवैतादृश्या दुर्घटनायाः कारणमस्ति । अतो यावत् त्वं प्रकृति विनाशयिष्यसि तावदस्यां भुवि न कदाऽपि शान्तिर्भविष्यति । आगामिकाल
स्त्वतीव भीतिकरोऽस्ति, इति निश्चितम् ।। गिरिः सत्यम्, नितरां सत्यम् । उपभोगार्थं कृतस्य कर्मणः फलं त्वयैवाऽवश्यं भोक्तव्यम्।
अन्यच्च निराश्रितानां वन्य-जलीय-ग्राम्यप्राणिनां निःश्वासेनाऽपि त्वं शप्तो भवसि । एवं वयं तु दुःखिनो भविष्याम एव, किन्तु तवाऽपि बन्धुजना अधिकं दुःखिनो ।
भविष्यन्ति । वृक्षः - भो ! अद्यपर्यन्तं न केऽपि जना अन्यान् पीडयित्वा हत्वा च सुखिनो भूताः । ॐ
कदाचिद् बाह्यदृष्ट्या सुखिनो दृश्येरन्, किन्त्वाभ्यन्तरदृष्ट्या तु ते दुःखिन एव
विद्यन्ते । त्वमपि..... मनुष्यः (निरुध्य) मैवं वादीः, क्षन्तव्यो मेऽपराधः, क्ष...न्त... (रोदिति) वृक्षः शोकं मा कुरु । अद्य त्वं मनसा निश्चिनु- "इतः परं न कदाऽपि स्वार्थायाऽन्येषामहितं करिष्यामि, नाऽन्येभ्यो दुःखं दास्यामि, नाऽन्यान् हनिष्यामि," इति ।
शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवन्तु लोकाः ।।
Jain Education International
९२ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114