Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________ भारतीय संस्कृतिः संस्कृतभाषायाः प्रतानवितानैयूँताऽस्ति / तद्भाषायाः परिवर्तनेन विकसिता पालि-प्राकूता-पभ्रंशादिभाषास्तथा वर्तमानकालीना भाषा अपि संस्कृतेः प्रवाहं वहन्त्यः सन्ति / एतासां सर्वासामपि भिन्नभिन्नभाषाणां मणिमालायां सूत्ररूपेण संस्कृतभाषा विद्यते / भारतवर्षस्याऽऽत्मभूता संस्कृतिर्यादृशी सर्वतोभद्ररूपेण संस्कृतभाषायामभिव्यक्ता जाताऽस्ति, न तादृश्येतासु लौकिकभाषासु जाता / तासु लौकिकभाषासु तु संस्कृतेरमुकान्यङ्गान्येव विकसितानि जातानीव भासन्ते / सर्वेषामप्यङ्गानां समन्वयः शुद्धीकरणं वा मूलस्रोतसः सहायेनैव करणीयम् / अतश्च संस्कृतभाषाया आराधनं विहाय नाऽन्यः कोऽपि मार्गो भारतदेशस्य। प्रजानां विशालो वर्गस्तु यद्यपि लौकिकभाषाभ्य एव संस्काररसं प्राप्स्यति किन्तु समग्रस्याऽपि देशस्य संस्कृतेर्धारण-पोषण-संशोधनार्थं च केनचिद् वर्गेण मूलस्रोतसा सह सम्पर्कः सततं प्रवर्तनीय एवेत्यावश्यकम् / तदर्थं च भारतीयविद्यालयेषु संस्कृतभाषाया अध्ययनार्थं योग्या सामग्री सम्पादनीयाऽपि। गोपालदास जी. पटेल: (संस्कृत-गुजराती विनीतकोश-पुस्तकम्) பாடு போன வினவின் antibrary.org

Page Navigation
1 ... 112 113 114