Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मनुष्यः किं मे.....
(तदैव गगनभेदी ध्वनिः श्रूयते ।) मनुष्यः (सभयं) किमेतत् ? वृक्षः तव पापम् । मनुष्यः हन्त ! कथं सर्वत्र ममैव दोषो दृश्यते त्वया ? किं जगत्यहमेक एवाऽपराध्यस्मि ? वृक्षः आम्, आम् । अस्मिन् जगति त्वादृशो न कोऽपि कृतघ्नोऽस्ति । त्वया (A यावन्तोऽपराधाः कृता न तावन्तः केनाऽपि कृताः ।
(तदैव गिरिरुच्चैराक्रन्दते रोदिति च ।) मनुष्य: भोः ! किमभूत्... गिरिः रे दुष्ट ! तव हृदये एतादृशी दुर्बुद्धिः कथं सञ्जाता ? किं ते हृदि दयाया अंशोऽपि
न विद्यते ? त्वया तु मे सर्वस्वमपि नाशितम् । कुत्राऽहं गच्छेयम्, वसेयम्, कस्मै च कथयेयम् ? म...म.... (रोदिति ।) (सान्त्वयित्वा) बन्धो ! शोकं मा कुरु । एतेन पापिना ममाऽप्येषैव स्थितिः ।
कृता। गिरिः (सक्रोध) रे ! त्वयैव समस्तपृथिव्या विनाशः कृतोऽस्ति । तवोपर्यद्यपर्यन्तं ।
यैर्यैरुपकारः कृतः तान् सर्वानपि विनाशयसि त्वम् । (तावदेव पशु-पक्षि-प्राणिन आक्रन्दमानाः तत्राऽऽयान्ति । मनुष्यं वीक्ष्य "म्रियतां न
म्रियता''मिति चीत्कारं कुर्वन्ति ।) सिंहः एतेनैव निखिलजगतो नाशः कृतः । एतं विना सर्वेऽपि पशु-पक्षिणो भिन्न-भिन्न
रीत्योपयोगिनः सन्ति । अत एष एव भाररूपोऽस्ति, तथाऽपि पशुपक्षिणो
भाररूपा निरर्थकाश्च सन्तीति वदन्तं तमेवाऽस्याः पृथिव्या निष्कासयतु । । गिरिः सत्यं सत्यम्, एतमेव निष्कासयतु । मया तवोपरि कः क उपकारः क्रियते, इति ।
किं जानासि खलु ? शृणु-यत्र यत्राऽहं वसामि, तत्र तत्र वृष्टिर्भवति, यतोऽहमन्यत्र गमनशीलान् मेघवृन्दान् निरोधयामि । मां त्रोटयित्वा पाषाणचूर्णं पाषाणखण्डांश्चाऽवाप्य त्वमद्यतनगृहादिकं कारयसि । सर्वानपि धातून विशिष्टौषधि चाऽहमेव ददामि । युद्धकालेऽहमेव युष्मान् सर्वान् नगरादिकं च रक्षामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114