Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वदानी AR
SA
PA मनुष्यः भोः ।... वृक्षः (निरुध्य) अहो ! तव धाष्र्यमपि वर्णनातीतमस्ति । अद्यावधि मार्गे गृहे चल
पाञ्चालिकारूपेण शोभायाः साधनरूपेण चाऽस्माकमुपयोगः कृतः । किन्त्विदानी तु विविधवर्णयुतान् नैकान् चित्रपतङ्गान् हत्वा तेषां स्थालिकां कृत्वा तत्र सानन्दं । भक्षयसि त्वम् । हन्त ! अभिरुच्यर्थं प्राणिनां विघातः करोषि । एवमद्यपर्यन्तस्माकं । बहुश उपयोगः कृतः त्वया, तथाऽपि न कदाऽपि प्रतीकारः कृतोऽस्माभिः,
किन्त्वितः परं तव दुष्कृत्यान् सोढुं क्षणमपि न शक्ता वयम् । मनुष्यः (उच्चैर्हसित्वा, सोपहासं) किं त्वमेवाऽस्माकं जीवनाधारो रक्षकश्चाऽसि ? यदेवं
मन्यसे ? आम, आम् । वयं (प्रकृतयः) एव ते जीवनाधारा रक्षकाश्च स्मः, इति निश्चितं ज्ञेयम् । अन्नं काष्ठं वस्त्रमौषधमित्यादीनि तव जीवनोपयोगीनि सर्ववस्तून्यस्माभिरेव तुभ्यं दीयन्ते । शरीरपोषणरूपं भोजनं कर्तुं, शीत-ग्रीष्म-वर्षाया रक्षणार्थं वस्त्र परिधातुं तथा देहस्य प्रातिकूल्ये सति भेषजं गृहीत्वा जीवितुं चाऽस्मत्प्रभावेनैव समर्थोऽसि त्वम् । काष्ठादग्नि वायुं चोत्पाद्याऽस्मत्प्रभावेनैवाऽनुक्रमेणाऽन्नं पाचयितुं प्रासादादिकं च विरचय्य तत्र वसितुमर्हो भवसि त्वम् ।
एकं मराठीकाव्यं स्मर्यते । तस्य मर्मैतदस्ति यद् "निखिला प्रकृतिः स्तनाकाराऽस्ति । मानवस्तु भूमिपुत्रोऽस्ति । अतो यथा जननी स्तनपानद्वारेण बालकं पोषयति तथैव भूमिरपि मानवरूपपुत्रं पालयती"ति । अतो मां विना
तवाऽस्तित्वस्य कल्पनैवाऽशक्या, इति न खलु कदाऽपि विस्मर्तव्यम् । मनुष्यः अहो ! त्वमेतावदभिमानेन वर्तसे खलु ! किन्त्वेतत् सर्वं मिथ्याऽस्ति । भो ! यदि
तव पोषणं न क्रियते मया तर्हि ते का गतिः स्यात् ? इति त्वयाऽपि न विस्मर्तव्यम् । (सोपहासं) सत्यं सत्यम् । किं गिरौ वने गुहायां च तव जनक एव मद्बान्धवानां रक्षणं करोति खलु ! त्वं भवेर्न वा, मेऽस्तित्वं तु सर्वदा सर्वत्र प्रवर्तामहे प्रावर्तामहि प्रवामहि च । त्वां विना वयं जीवितुं समर्थाः, न तु नो विहाय क्षणमपि त्वं जीवितुं शक्तोऽसि ।
८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114