Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ कथा कथायां बोध: आ. विजयशीलचन्द्रसूरिः ( १ ) भव्यं सञ्जातं, यद् भवता शस्त्रक्रिया त्वरितं कारिता । यदि दिनद्वयं विलम्बः कृतः स्यात्, तदा तु शस्त्रक्रियां विनैव भवान् स्वस्थोऽभविष्यत् !! (२) शिष्यत्वमीहमानेनैकेन जनेन ईजीप्सियन्- गुरुरुक्तः, 'मन्येऽहं यद् अखिले संसारेऽहमेवैको जनः, यः सत्यस्य पथि दीक्षितुं तीव्रतयेहते । कृपया भवान् मां दीक्षयतु ।' गुरुणा प्रत्युक्तम्, 'अस्मत्सार्थस्य सभ्यतया त्वमवश्यं प्रवेष्टुमर्हसि । किन्तु एतद्विकं त्वया हठात् स्वीकर्तव्यं भविष्यति एकं तु यत् कर्तुं तवाऽनिच्छा स्यात् तदवश्यं करणीयम्; अन्यच्च, त्वं यत्किञ्चिदपि कर्तुमेषिष्यसि, तत् कर्तुं त्वं नैव शक्नुयाः, वयं त्वां तत् कर्तुं नाऽनुमंस्यामहे । यदि स्यात् तव मनः, तर्हि स्वागतं ते । (३) जन एकः कफ श्लेष्मग्रस्तः । स विदेशे विश्वविद्यालयेऽधीत्य निष्णातवैद्यपदवीं सम्पाद्य चाऽऽगतस्यैकस्य नूतनवैद्यमहाशयस्य समीपं गतवान्, स्वीयामस्वस्थतां निवेद्य तच्चिकित्साप्रकारं पृष्टवांश्च । वैद्येन सर्वतस्तं परीक्ष्य सनिःश्वासं प्रवेदितं तस्मै, 'न खलु कोऽपि चिकित्साप्रकार एतं शमयितुमस्त्यस्मत्सविधे ।' जनेन पृष्टं, 'तर्येतच्छमनाय मया किं वा कर्तव्यम् ?' वैद्यः सोल्लासमुक्तवान्, ‘एकं कार्यं करोतु भवान् । प्रथममत्युष्णजलधाराया अधः कञ्चित्कालं तिष्ठतु, तदनन्तरमङ्गमप्रमृज्यैवाऽतिशीतजलधाराया अध उपविशतु तावन्तमेव कालम् ।' ' ततः किं भविष्यति ?' जनेन साश्चर्यं पृष्टः सः । तेन सरोमहर्ष गदितं, 'एतावत्कार्यकरणतो भवान् 'न्यूमोनिया' ऽभिधव्याधिग्रस्तो भविष्यति । तस्य चिकित्सां कर्तुं त्वहं जानाम्येव । ततश्च भवान् शीघ्रं स्वस्थतामाप्स्यति !' । * Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114