Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
र
बस भवति, स प्राहरिको भूत्वा श्रीदत्ताया अपवरके स्वपिति, म्रियते च । यदि त्वमत्रोषितुं बिभेषि तदाऽन्यत्र गत्वा वस ।'
एतच्छ्रुत्वा ईषद् विहस्य कुमारो दत्तस्याऽऽस्थानं प्रविष्टः । दत्तोऽपि तं दृष्ट्वा A ससंभ्रमं सादरं चाऽऽसने उपवेशितवान् । ततस्ताम्बूलादिना तत्प्रतिपत्तिं कृत्वा तं पृष्टवान्
'कुतस्त्यो भवान् ?' तेनाऽपि 'उज्जयिनीतो निर्गतोऽहं कारणवशतोऽत्र प्राप्तोऽस्मि' इत्युत्तरितम्। * एतावतैकः कृतस्फारशृङ्गारः पुरुषस्तत्राऽऽगतः । तन्मुखमत्यन्तमुदासं व्याकुलं चाऽऽसीत् । * अतो वत्सराजः श्रेष्ठिनं पृच्छति स्म- 'तात ! किमित्ययं पुरुषः कृतशृङ्गारोऽपि दुर्मना
लक्ष्यते ?' । तदा श्रेष्ठी दीर्घ निःश्वस्य तं कथितवान् – 'अत्यन्तमकथनीयोऽप्ययं वृत्तान्तस्ते * कथयामि यन्मे दुहितुः पार्वे योऽपि प्राहरिकः स्वपिति स जीवितव्यान्मुच्यते एव । अद्य
तु प्राहरिकत्वेनाऽस्य वारकोऽस्ति । अतोऽयमतीव विमना अस्ति । कस्य वा मरणाद्भयं न
भवेत् ?'
*
___ एतच्छ्रुत्वा वत्सराजेनोक्तं - 'यद्येवं, तर्हि तिष्ठत्वयं तात ! अद्याऽहमेव भवद्दुहितुः में प्राहरिको भूत्वा स्वप्स्यामि ।' श्रेष्ठ्युक्तवान् - 'मैवं वद वत्स ! त्वं तु प्राघूर्णकोऽसि,
तथाऽद्याऽपि त्वया मद्रव्यं न भुक्तम् । तत्कथं त्वं प्राहरिको भूत्वा मृत्युमुखं प्रविविक्षसि ?' । कुमारेण भणितं - 'तात ! एष एवाऽतीवमरणभयद्रुतस्तिष्ठतु । अहमेवाऽद्य प्राहरिको र भविष्यामि ।'
तस्याऽत्याग्रहं ज्ञात्वा श्रेष्ठी द्विगुणदुःखसन्तप्तस्तं विसृज्य चिन्तितवान्, 'नूनं सत्पुरुषाणां परोपकार एव मतिर्भवति । अहं पुनरेवंविधपुरुषरत्नानां नाशको दुहितृमिषेण सञ्जातोऽस्मि । र धिङ् माम् ॥"
तावता कुमारस्तं पुरुषं निवर्त्य हृष्टमना उपरिमतले आरूढः सन् श्रीदत्ताया अपवरकं प्रविष्टः । साऽपि तं दृष्ट्वा 'अहो ! अतिरूपम् !! अहह ! ईदृशी लवणिमा !! अहो ! शौण्डीर्यम् !! अहह ! पुरुषरत्नमयमुपलक्ष्यते । धिगस्तु ममाऽनर्थबहुलस्य पापप्रचुरस्य जीवितस्य यदेवंविधानां पुरुषरत्नानां विनाशकरं वर्तते ।' ।
अथैषोऽपि तस्याः सम्मुखमेव निजशय्यायामुपविष्टः सन् तया सह संलापं करोति स्म । तत्राऽप्यसौ सुविदग्धत्वात् सर्वकुशलत्वाच्च नानाविधदेशीभिर्नेकविधकाव्योक्ति
+
६४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114