Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ ताट, हुमायास्य राणा अलावादः मू. ले. दादाधर्माधिकारी अनु. मुनिरत्नकीर्तिविजयः एकदा 'आदिवासी'जातीयानां ग्रामे वास: करणीय आसीदस्माभिः । यत्र च वासः करणीय आसीत् तत्रैक एवाऽपवरक आसीत् । वातायनमपि तत्र नाऽऽसीत् । तत्रैव चाऽपवरके तत्रत्यैर्भोजनमपि सज्जीक्रियते स्म । ततश्च समग्रमपि गृहं धूमेन व्याप्तमासीत् । कतिचन कुक्कुटा अपि तत्राऽऽसन् ये इतस्ततो भ्रमन्त आसन् । तत्रत्यैर्जनैर्विचारितं यत् तादृशि स्थाने मादृशस्य जनस्य शयनव्यवस्था योग्या नैव भवेत् । अतः समीप एवैक उटज आसीत् तत्र तैः खट्वा स्थापिता । ममाऽवमानस्योपहासस्य वाऽऽशयो गृहस्वामिनो नाऽऽसीदेव किन्तु तेन सरलया मनोवृत्त्या सक्षोभं कथितं यद् - "वयमत्र शूकरान् वासयामः । अस्माकं सविधेऽन्यत् स्थानमेव नाऽस्ति, अतोऽद्याऽस्माभिरेतत् स्थानं सम्यक् सम्मार्जितमस्ति" इति। __मयोक्तम् - 'भवतु, भवतु ! यत् सम्मार्जनकार्यं कृतं तच्छोभनमेव किल' इति । तदनुक्षणमेव मम मनसि विचार उद्गतो यदेष जनोऽत्र शूकरान् वासयति किन्त्वत्र द्वारं तु नास्त्येव । तर्हि यदि रात्रौ कश्चिदन्तः प्रविशेत् तदा किं करणीयमिति । एवं विचार्याऽहं पृष्टवान्- 'भोः ! किमत्र द्वारं नास्ति ?' 'अत्र द्वारस्याऽऽवश्यकतैव नास्ति' - स उवाच । 'किमर्थम् ? किं कोऽपि चौरो नाऽस्त्येवाऽत्र ? किं वा चौर्यं नैव भवत्यत्र ?' 'नैवम्, अत्र चौरा अपि सन्ति चौर्यमपि च भवति ।' 'तर्हि किमर्थं त्वद्गृहे द्वारं नास्ति ?' सोऽजल्पत् - 'क्वाऽस्माकं तादृशं भाग्यं (!) येन चौरा अस्मद्गृहमागच्छेयुः !' । सर्वथाऽशिक्षितस्य जनस्यैते शब्दा आसन् यद् नाऽस्त्यस्माकं तादृशं भाग्यमिति । wroom TNI Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114