Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
___अन्यो भक्तोऽवोचत् - रक्तपरीक्षण-क्षकिरणे (X-Ray) त्यादिकं यत्किमपि करणीयं X तत् सर्वमपि करिष्यते ।
वैद्यराज आह-चिन्ताया न किमपि कारणमस्ति । विश्राम एवौषधमस्ति । तथाऽपि • वायुप्रकोपशान्त्यर्थं गुलिकाद्वयं ददामि, तेन तस्य स्वास्थ्यं समीचीनं भविष्यति ।
एतच्छ्रुत्वैव ते भक्तजनाः परस्परं कथयन्ति यद्, एष वैद्यराजो न समीचीनोऽस्ति । इयत्यां पीडायां सत्यामपि किमपि नास्तीति वदति । झटितीदानीमेव हृदयरोगचिकित्सकः कश्चिन्निपुण आंग्लचिकित्सक आकारणीयः । .
तावता नगरश्रेष्ठिना सह प्रविशन्तमांग्लचिकित्सकं सर्वः पश्यति । मार्गे एव श्रेष्ठिनः X सकाशात् सर्वमपि वृत्तान्तं ज्ञातवानासीदांग्लचिकित्सकः । तथाऽप्यत्रोपस्थितं धनाढ्यभक्तवर्ग X दृष्ट्वाऽनुमितं तेन यद्, अत्र धनस्यैव माहात्म्यमस्ति ।
स साधोर्देहस्य पादादारभ्योत्तमाङ्गपर्यन्तं प्रत्यङ्गं सूक्ष्मदृष्ट्या निरीक्षते । सी चिन्तितवान्-"अत्र न कोऽपि रोगोऽस्ति । केवलं वायुप्रकोपात्तथाऽतीवपरिश्रमवशाच्चैव र देहे प्रतिकूलता वर्तते । तथाऽप्यस्य साधोभक्ता धनाढ्याः श्रेष्ठिनश्च सन्ति । ततो यदि
'किमपि नास्ति' इति कथयेयमहं तद्देते तन्न स्वीकरिष्यन्ति" । अतः स पञ्चदशक्षणपर्यन्तं विविधरीत्या देहस्य परीक्षणं करोति । परीक्षणकाले स पुनः पुनः स्वमुखं ग्लानं करोति, कदाचिनेत्रे विस्फारिते करोति । ललाटोपरि हस्तं संस्थाप्य सर्वतो दृष्टिं प्रसारयति । यावत् स किञ्चिद् वक्तुमुद्युक्तः तावदेव.....
"हृदयाघातोऽ (Heart Attack) स्ति, ततः सर्वे सावधाना भवन्तु । अत्र लघौ X नगरे आंग्लचिकित्सका न समीचीनाः सन्ति । न कान्यप्यद्यतनसाधनान्युपलब्धानि सन्ति । अतः साम्प्रतमेव 'मुम्बई'नगरस्थिते 'जसलोक'रुग्णालये वायुयानद्वारेण गुरुदेवं नयामि" इत्युच्चैर्वदनेको धनाढ्यो भक्तो भुवि पादौ आस्फाल्य प्रविशति । तस्य मुखोपरि प्रतिपदं च धनोन्मादोऽहङ्कारश्च दरीदृश्यते । स पट्टशिष्यं नमस्यति । तदा तं श्रेष्ठिनं स शिष्यः कथयति- भो ! मा त्वरिष्ठाः । पश्यतु, एष आंग्लवैद्यः समीचीनोऽस्ति ।
एतन्निशम्य काञ्चिद् ग्लानिमनुभवन् स श्रेष्ठी आंग्लचिकित्सकं प्रति दृष्ट्वा नमस्कृत्य 2 च वदति- भो ! एष साधुरस्माकं गुरुदेवोऽस्ति । निखिलभारतदेशस्योपकार्यस्ति । तेन 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114