Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पत्रम्
5 55555 55 55 55 55
नमो नमः श्रीगुरुनेमिसूरये ॥
मुनिधर्मकीर्तिविजयः आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । सगुरुभगवन्तः सर्वेऽपि कुशलाः सन्ति । तव स्वास्थ्यमनुकूलं स्यादिति कामये।
बन्धो ! कियत्कालाद् मम श्रुतिपथे 'विकास' इति शब्दः पुनः पुनरटाट्यते । अद्य बालकादारभ्य राजनेतृपर्यन्तं सर्वेषां मुखाद् 'विकासः विकास' इति शब्दः शोश्रूयते । आस्तां संसारिजनाः, संसारत्यागिनः साधवोऽपि 'विकास'शब्दे मुह्यन्ति । अद्य राजसिंहासनस्थितैः सज्जनैः (?) धनोन्मत्त श्रेष्ठिभिः, उपदेशदानरतसाधुजनैश्च पदप्रतिष्ठार्थं स्वनामार्थं च यत् प्रपञ्चादिकं क्रियते तन्निरीक्ष्य 'जीवनस्य सार्थक्यं किम् ? किं च सारः? किं च विकासः?
इति प्रश्ना मां निरन्तरं पीडयन्ति । 'जीवनविकास' विषये प्रतिव्यक्ति भिन्न भिन्न मतं प्रदर्श्यते । d) तत्र मुख्यतो द्वे मते स्तः । केचिज्जना 'भौतिकदृष्ट्या जायमानो यो बाह्यलाभः प्रतिष्ठाप्राप्तिश्चैव 16
विकास' इति मन्यन्ते । केचिज्जनास्तु ‘आत्मदृष्ट्या गुणप्रकटनं प्रसिद्धिमोहं विना स्वपरहितकरणं चैव विकास' इति कथयन्ति । अत्र स्वस्वदृष्ट्या तु पक्षद्वयमपि सत्यमस्ति । तथाऽपि वस्तुत: (O "किं नाम विकास' इति चिन्तनीयम्।
बन्धो ! जीवनस्य सार्थक्यं साफल्यं चाऽऽत्मिकविकासस्योपर्येवाऽवलम्बते । बाह्यविकासः कियानपि स्यात् किन्तु यद्याभ्यन्तरगुणविकासो नास्ति तर्हि निश्चितं ज्ञेयं यज्जीवनं निष्फलं निरर्थकं चाऽस्ति । कदाचिन्महती प्रतिष्ठा सत्ता विद्वत्ता तथा बहुधनमप्यवाप्यते, एवं जगति प्रभूतोऽपि बाह्यलाभः प्राप्येत, किन्तु यदि जीवने औदार्याद्यात्मिकगुणानामुद्घाटनं विकासश्च न स्यात् तर्हि तया प्रतिष्ठया सत्तया विद्वत्तया च को लाभः ? यदि किञ्चित्पठनेनैव ज्ञानी, किञ्चिद्धनलाभेनैव धनिकः, स्वमतिकल्पनया किञ्चित्सत्कार्यकरणेनैव वा कश्चित् प्रतिष्ठितः कुलीनो वा यधुपलक्ष्येत तर्हि खलीनपर्याणा(Saddle)दिपरिधानमात्रेण गर्दभोऽप्यश्वराजो
ऽभिधीयेत तर्हि तस्य पूजनेऽपि का बाधा? अतो बाह्यविकासमात्रेण मनुष्यस्य न शोभा, न च क) तेन शुद्धसत्त्वस्य प्रकटनमपि भवति, किन्त्वात्मिकविकासेनैव तस्य शोभा तथा शुद्धगुणा- (O
४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114