Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आस्वाद
॥ मृत्युः ॥
नन्दपुरम्
यो जायते तस्य मृत्युरवश्यं भवत्येव, नास्ति तत्र संदेहलेशः । प्रक्रियैषाऽ प्रचलति । यथोक्तं गीतायामपि
डॉ. महेश्वरः रमानाथ: द्विवेदी
३६११३०
Jain Education International
" जातस्य हि ध्रुवो मृत्युः "
अयं हि नियमः प्रकृतेः । जन्मनो बहुकालपूर्वमपि वयं नाऽऽसम् मृत्योः पश्चाद् बहुकालपर्यन्तमपि वयं न भविष्यामः, मध्ये यद् जीवितं वर्तते, तत्रैवाऽस्माकं स्थितिः । एषा स्थितिस्तु महाकालपरिमाणसापेक्षं सूक्ष्मकालिक्येव ।
महाकालस्यैकदेशो जीवनकाल:, यदि जीवनकालसापेक्षं चिन्तयामस्तर्हि जीवनेऽवस्थाद्वयं भवति । आतुरावस्था, अनातुरावस्था च । तत्र आतुरावस्था समग्रजीवने न भवति, क्वचिदेवाऽऽतुरावस्थाऽऽयाति, जीवनस्य दीर्घकालस्त्वनातुरत्वेनैव यापितो भवति । तत्राऽऽतुरावस्था या सूक्ष्मकालिकी, सा विकृति: ( abnormal), यथा महाकालसापेक्षं जीवनम् । अनातुरावस्था प्रकृति: ( normal), यथा महाकालसापेक्षं जीवनं विहायाऽन्यः कालः । विकृति:-आतुरावस्था सदैव दुःखप्रदा भवति । प्रकृतिस्तु शान्तिप्रदैव । विकृतितः प्रकृति प्रति गमनं सदैव सौख्यप्रदम् । यदा यदा मनुष्य आतुरत्वादनातुरत्वं - स्वास्थ्यं प्राप्नोति तदा तदा कीदृश आनन्दो भवति ! मृत्युः सा एव घटना, तत्राऽपि विकृतितः - जीवनतः प्रकृति प्रति लयं प्रति गमनम् । तत् कथं कष्टप्रदं भवितुमर्हति ? नैव, सौख्यप्रदमेव भवतीत्यनुमीयते ।
--
मृत्योर्भयाद् मोचयति तदेव ज्ञानम् । यथोक्तं कालिदासेनाऽपि -
"मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः "
केनाऽपि हिन्दीकविनाऽप्युक्तम्
-
[ऽनन्तकालात्
४५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114