Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
बन्धो ! वस्तुतो विकासस्य विभावनैव परिवर्तिता । ज्ञानी ध्यानी प्रभावकः प्रवक्ताऽधिकारी कोट्यधिपतिः सन्नपि यद्यसंस्कारी स्यात्तर्हि आत्मिकदृष्ट्या तस्य विकास एव नास्ति किन्तु स विकासाभासोऽस्ति इति निःशङ्कं ज्ञेयम् । महावीरो बुद्धो रामः कृष्णश्चैवं ये ये महापुरुषा जाता:, तेषां पश्चाद्भूर्निरीक्ष्यते तर्हि ज्ञायते यद्, एतैरात्मिकविकासार्थं किं किं न कृतम् । ते राजपुत्रा आसन् अतस्ते न पूजिता जनैः किन्त्वतीव तीव्रं तपः तप्तम्, ध्यानं धृतम्, परोपकारः कृतः, एवं चाऽऽत्मिकगुणानां विकासः कृतः तत एव च ते पूजिता जनै: । अतो विकासस्य मूल्याङ्कनं न बाह्यसंपत्त्या, अपि त्वान्तरिकसंपदैव क्रियते । यावत्यात्मिकसंपत्तिरधिका तावान् विकासोऽपि विशेष एव । वस्तुतश्चित्तस्थितानां सारल्यौदार्य-निरभिमानता-करुणानिर्दम्भतादीनां गुणानामुद्बोधनमेव विकासः ।
1
अद्य वयं सर्वे सर्वेषु क्षेत्रेषु विकासार्थमुन्मत्ता इव धावामः । अद्य विविधान्यद्यतनसाधनानि नित्यशो निष्पद्यन्ते । यैरत्रस्थितैरस्माभिर्विश्वस्मिन् विश्वे यत्किमपि घटेत तत् सर्वं ज्ञायते श्रूयते च । ततोऽप्यधिकमाश्चर्यकरं त्वेतद् यदन्यत्रैकस्मिन् कोणे यस्मिन् क्षणे यद् भवति तत्क्षणे एव तत् सर्वं वयं द्रष्टुं समर्था अपि भवामः । गणकयन्त्र (Computer) विषये तु किमपि वक्तव्यमेव नास्ति, यतस्तत्तु विदितमेवाऽस्ति । एवं बाह्यविकासदृष्ट्या बौद्धिकविकासदृष्ट्या च सर्वेषु क्षेत्रेष्वकल्पनीयसिद्धिः साधिताऽस्माभिः तत्तु निश्चितमस्ति किन्तु तेन सहैतदपि निश्चितमस्ति यद्, बाह्यविकासेन यावन्तो लाभा भवन्ति तावती ततोऽप्यधिका वा हानिर्भवति । दूरदर्शन (T.V.) दूरवाणी (Mobile) - आन्तरजाल (Internet) इत्यादिभिरद्यतनसाधनैः समाजे लोकमानसेच या विकृतिः प्रविष्टा सा त्वसह्याऽस्ति । अद्य 'लज्जा मर्यादा' इति शब्दस्य तु मूलमेवाऽस्तमिति प्रतिभाति । तत एवाऽद्य मर्यादामुल्लङ्घ्य जनसमक्षमेव दुराचरणं भवद् दृश्यते । चारित्र्यस्य तु दर्शनमेव दुर्लभमस्ति । यतः सर्वेऽपि जना बाह्यविकासार्थमेव प्रयतन्ते, किन्तु गुणविकासं प्रति त्वौदासीन्यमेवाऽऽसेवन्ते । यदि बाह्यसाधनानां विकासेन सह शुभानां दृष्टीनां विचाराणां कल्पनानां मनोवृत्तीनां चाऽपि विकासः स्यात्तर्हि एतान्येव साधनानि महदुपकारीणि (८) भवन्ति, अन्यथैतान्येव साधनानि विनाशकारीणि भवन्ति । अतो येन दुर्गुणानां वृद्धिर्गुणानां च हानिर्भवति स कथं 'विकास' इत्युच्यते । येन बाह्यविकासेन सहाऽऽत्मिकविकासो भवति स एव वस्तुतो विकास:, किन्त्वधुनाऽऽत्मदृष्ट्या तु वयमधोगतिमेव प्राप्तवन्तः । अन्यत्रवर्तिवस्तुदर्शनो वयं स्वचित्तस्थितान् दुर्गुणान् तु द्रष्टुमेव न शक्नुमः । आस्तां दुर्गुणदर्शनम्,
6
6
(6
Jain Education International
४९
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114