________________
जाते नहीं है, कोई दुनियासे दूर चलके मिलते सभी यहीं है, कपड़े बदल-बदलके । आदमी सोया जमीं पर, लोग कहते मर गया वो बेचारा था सफरमें, आज अपने घर गया ।
न कोऽपि गच्छति दूरं जगतः । सर्वेऽत्रैव मिलन्ति गृहीत्वा नवानि वासांसि । यदा मनुष्यश्चिरनिद्रां प्राप्नोति, सर्वे वदन्ति 'अम्रियत' इति । स तु प्रवासे आसीत्, अद्य स्वगृहमगच्छत् ।
प्रवासतो गृहं प्रति गमनमपि सौख्यप्रदमेव । प्रवासे नानाविधानि कष्टानि सोढव्यानि भवन्ति । गृहे तु सुखमेव । अत एव कथितं सुभाषितकारेण यत्- 'सुखमप्रवासगमनम्' । ईदृशं मरणं, विकृतितः प्रकृतिं प्रति प्रवासतः गृहं प्रति गमनमिव प्रतिभाति । अतो मृत्योर्भयं विहाय जीवनयापनमेव वरम् ।
Jain Education International
नवे वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ? ।। (श्रीमद्भागवते ९/९/२९)
४६
For Private & Personal Use Only
www.jainelibrary.org