Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आस्वादः
चिन्तनधारा
मुनिरत्नकीर्तिविजयः - रमयन्ति मनः तावद्, भावाः संसारसम्भवाः ।
यावन्न श्रूयते साश्रु - लोकफुत्कारकाहलः ॥ __ श्रीमदुमास्वातिभगवद्विरचिते श्रीतत्त्वार्थसूत्रे सूत्रमेकमस्ति - "जगत्कायस्वभावौ च संवेगवैराग्यार्थम्" इति । जगतः स्वभावश्चित्ते संवेगं - मोक्षाभिलाषं जनयति, कायस्य स्वभावश्च वैराग्यमुत्पादयति । जगति विद्यमानस्य सर्वस्याऽपि वस्तुनः स्वकीयं किञ्चित् * स्वरूपं यथा. विद्यते तथा तस्य स्वकीयः स्वभावोऽपि कश्चिद् विद्यते । स्वरूपानुगुणः ।
3 स्वभावः स्वभावानुगुणं च स्वरूपं न सर्वत्र सर्वदोपलभ्यते । क्वचिदेव स्वरूपस्वभावयोर्मध्ये 1 समानता परिदृश्यते । यो नाम तयोर्भेदं परिलक्षितुं शक्नोति तस्य मतिः स्वरूपदर्शनमात्रेणैव 15
न कदापि मुह्यति । वस्तुनः स्वभावस्य स्पष्टो बोधः स्वरूपानुरागं त्याजयति । र स्वरूपमिन्द्रियैर्ज्ञायते स्वभावबोधश्चाऽनुभवेन तत्त्वदृष्ट्या च जायते । तत्त्वदृष्ट्या हीनो जनः ( स्वरूपानुरागाद् विमुह्यति । स्वरूपमेव स पश्यति, तदेव सततं भावयति, तदनुलक्ष्यैव च । ( विचारयति न किन्तु स्वहितं चिन्तयति । स्वकीयां रुचिमरुचिं स विचारयति किन्तु स्वकीयं A) शारीरिकं मानसिकं वा स्वास्थ्यमुपेक्षते । परं तु तत्त्वदृष्टिरेवाऽस्माकमार्यत्वस्य परिचयोऽस्ति । ( याऽद्याऽस्माभिविनाशिता किल । केवलं बाह्यदृष्टिप्रधान एव व्यवहारः सर्वत्र दरीदृश्यते । कि र तेन जायमानान्यनिष्टान्यपि नित्यमनुभवाम एव । एवं सत्यपि यद् वयं न जागृता र ॐ भवामस्तन्मोहविजृम्भितमेव ।
__ श्लोकेऽस्मिन् न कोऽपि विशेषोऽस्ति । किन्तु कथनरीतिरत्र विलक्षणाऽस्ति । अत्र ॐ मनुष्यस्य मोहो यथा दर्शितोऽस्ति तथा तन्मुक्त्युपायश्चाऽपि दर्शितोऽस्ति । आद्यचरणद्वयेटर 15 मोहो दर्शितोऽस्ति, शेषचरणद्वये च तन्मुक्त्युपायः ।
आवश्यकता तु सर्वेषामपि विद्यते एव । तदनुसृत्य च प्राप्तेरधिकारोऽपि सर्वेषामस्त्येव 58 15 किल । किन्तु सैवाऽऽवश्यकता यदा मर्यादामुल्लद्ध्याऽऽसक्तिरूपा जायते तदा यद् घटते 15 ( स एव संसारो नाम यस्याऽसारतां महापुरुषाः सततं प्रतिपादयन्ति । अन्यथा संसारेऽसारत्वं कर ( किमन्यदस्ति ? परिवर्तनं तु तस्य स्वभावोऽस्ति । किन्तु साक्षात् सततं च तस्य परिवर्तनं ।
Jain Education International
४३ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114