Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ (१४) 'अयं न योग्यो मम' नेति भाव्यं दासोऽस्मि पाल्यस्तव नाथ ! नित्यम् भक्तेः प्रकर्षो, मयि ते प्रसादः, भक्तिर्हि रम्या प्रभुकृत्यलभ्या तवाऽभिधैवाऽऽप्त ! शमाभिधानं नानाऽऽपदो यान्ति शमं यया मे । ध्येयं तु मे जीवितमात्रसौख्यं त्वत्सेवयैवेश ! हि तत् सुसाध्यम् यदा कदाचित्तव भक्तिभङ्गि - रिङ्गमन्मनो हर्षप्रकर्षमेति । तदा हि संकिलष्टमनोऽभिवृद्धिः, शुद्धिं रुणद्धीश ! ममाऽधिकाधिः न यत्र सत्यं न च वाचि तथ्यं द्वैतं च चित्ते सततं च तृष्णा । धैर्यापहः कैतवकन्दवार्दो लोभः स जेयस्तव भक्तितोषात् कन्दर्पधूर्त्तः प्रमदोन्मदिष्णुर्मनस्तु मथ्नाति विमोह मुग्धम् । कामं तकं नाथ ! कथं धुनामि, तद् देव ! देष्टुं करुणां विधेहि ‘विशेषसंक्लेशविनाशिताशो हतो हताशी मम भक्त एषः ।' किं वेत्सि नेत्थं विकदर्थितं मां भक्तौ लसन्त्यां किमु मोहजालं सुदृष्टकर्माष्टकचेष्टनोत्थ- ज्वालावलीसंज्वलितं मनो मे । तवाऽऽननात् साम्यसुधांशुपूरान्निर्वापयेशाऽऽशु विशीर्णदीर्णम् सुदिग्धसत्त्वं बहुकोपवह्नेः स्फुलिङ्गचर्गैर्बहुधोपतापैः । सत्साम्यचन्द्रो जिन ! वाग्भवस्ते संजीवयत्याशु शमांशुपूरैः Jain Education International 0 २२ For Private & Personal Use Only n રા રો કો ॥५॥ દા n ॥८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114