Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 49
________________ Jain Education International पाया व्याथितम् विष्णोः पदारविन्दात् परमपवित्रादहं विनिर्गत्य । सम्प्राप्ता सुविशालं शिवस्य पूतं जटाजूटम् विष्णुपदीत्याहुर्मां सुप्रथितां देवनिम्नगेत्याहुः । भूलोकञ्च प्राप्तां बहवो भागीरथीत्याहुः आहिमभूधरशिखरा-दासिन्धोर्भारतस्य भूभागम् । सुबहोः कालात् सन्ततमेषा गङ्गा पुनानाsस्मि वर्षेभ्यो नैकेभ्यो नगराणां तीरवर्तिनां हन्त । रथ्योदकानि नित्यं मय्यतिमलिनानि निपतन्ति मम तीरेषु शवानां शताधिकानां प्रवर्त्यते दाहः । प्रायोर्धदग्धदेहा मदप्सु नित्यं प्रवाह्यन्ते जगन्नाथपाठकः सकलाया वसुधाया सौभाग्यमिति स्तुताऽस्मि कविभिरहम् । मम दर्शनालभन्ते मुक्ति मितो मानवा बहवः કો आसीन्मयि यत्किञ्चित् पूतीकरणक्षमत्वमिह लोके । तदपि समन्तादधुना क्षरतीति तु मामकोऽनुभवः ३६ For Private & Personal Use Only n રો મો ॥५॥ ॥७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114