Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ (४) ॥२॥ F MAGARATANAMAal धर्मेतरग्रीष्मसुतप्तसत्त्वैः पापापवारिस्तव धर्मवारि । पेपीयते तारक ! तीर्थमेघे समुन्नते प्राप्य परं प्रबोधम् 11:11 हे नाथ ! दासोऽस्मि तवैव देव ! त्वामेव सेवे बुधसङ्घसेव्य ! । ध्यायामि नित्यं हितदान् गुणौघान् गुणास्तवाऽधीश ! हितेष्वधीशाः तवाउनणीयोमहिमाहिमांशौ भव्येषु कल्याणविधावधीशे । द्रवत्यहो यद् हृदयेन्दुकान्तात् नक्तंदिनं भक्तिजलं तु चित्रम् ॥३॥ स्वातेः समे ते समये सुभक्तेः शुक्तौ श्रुतौ मे तव नाम सिक्तम् ।। मन्नेत्रपात्रात् प्रकटं तु मुक्ता-फलत्वमाप्तं जिन ! चित्रमेतत् ॥४॥ स्मरेण चारित्रवसु प्रलुप्तं ज्ञानप्रदीपः पवनादधैर्यात् । नष्टं कृपाब्धे ! मम सर्वसत्त्वं चित्रं त्वयि त्रातरि हा हतोऽस्मि ॥५॥ 'पीत्वाऽपि ते नाथ ! सुधोपमानं वचो न चित्ते समतावतार: । इत्थं मयोक्ता तव एव कर्णे ज्ञाता कथैषा जगता नु चित्रम् ॥६॥ भूतं न, भाव्यं जिन ! यन्न काव्यं भूते तु वृत्तं मम नृत्तकल्पम् । संसाररङ्गे बहुचित्रवेषश्चित्रे तथा नो तव वेशदाक्ष्यम् ॥७॥ क्दा त्वदाज्ञां कवचीकरिष्ये ज्ञानं च हेतिं करयोर्धरिष्ये । क्रियां च कृत्वा तुरगं सुतुझं निर्वाणसाम्राज्यमहं वरिष्ये લોટો Jain Education International १२ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114