________________
शीलांककृत विवरण
३५३ जयति समस्तवस्तुपर्यायविचारापास्ततीथिकं,
विहितैकैकतीर्थनयवादसमूहवशात्प्रतिष्ठितम् । बहुविधिभंगिसिद्धसिद्धान्तविधुनितमलमलीमसं,
तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ॥ १॥ आचारशास्त्र सुविनिश्चितं यथा,
जगाद वीरो जगते हिताय यः। तथैव किंचिद् गदतः स एव मे,
पुनातु धीमान् विनयापिता गिरः ॥२॥ शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थं गृह्णाम्यहमञ्जसा सारम् ॥ ३ ॥ आचार्य सर्वप्रथम सूत्रों का पदच्छेद करते हैं। पदच्छेद के बाद 'साम्प्रतं सूत्रपदार्थः' ऐसा कहते हुए पदों का स्पष्ट अर्थ करते हैं। तदनन्तर तद्विषयक विशेष शंका-समाधान को ओर ध्यान देते हैं। इस प्रसंग पर अपने वक्तव्य को विशेष पुष्टि के लिए कहीं-कहीं उद्धरण भी प्रस्तुत करते हैं। 'सुयं मे आउसं! तेणं भगवया एवमक्खायं-इहमेगेसिं णो सण्णा भवति' (सू० १)का व्याख्यान करते हुए वृत्तिकार कहते हैं : तच्चेदं सूत्रम्-'सुयं मे आउसं! तेणं भगवया एवमक्खायं-इहमेगेसिं णो सण्णा भवति' अस्य संहितादिक्रमेण व्याख्या-संहितोच्चरितैव, पदच्छेदस्त्वयम् श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति । एक तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्प्रतं सूत्रपदार्थः समुन्नीयते--भगवान् सुधर्मस्वामी जम्बूनाम्न इदमाचष्टे यथा-'श्रुतम्' आणितमवगतमवधारितमिति यावद्, अनेन स्वमनोषिकाव्यदासो 'मये' ति साक्षान्न पुनः पारम्पर्येण, 'आयुष्मन्निति' जात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्"....."इहे' ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमिति सम्बन्धो, यदि वा-'इहे' ति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा भवति', संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो जायते इत्यर्थः, उक्तः पदार्थः, पदविग्रहस्य तु सामासिकपदाभावादप्रकटनम्। इदानीं चालना-ननु चाकारादिकप्रतिषेधकलघुशब्दसम्भवे सति किमर्थ नोशब्देन प्रतिबोध इति ? अत्र प्रत्यवस्था-सत्यमेवं, किन्तु प्रेक्षापूर्वकारितया नोशब्दोपादानं, सा चेयम्--अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न घटाऽघट इति चोक्ते सर्वात्मना घटनिषेधः, स २३
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org