Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
नवमः पल्लवः
॥३९३
वेश्यया सह सारिकाभिर्दीव्यति, तान् दृष्ट्वाऽपि रङ्गाऽऽधिक्येन मर्यादां विहाय क्रीडति, तद् दृष्ट्वा तेऽल्पसमयं | तत्र स्थित्वा स्वस्वगृहं गताः । एवं ते प्रतिदिनमागच्छन्ति गच्छन्ति च । कतिपयदिवसानन्तरं दुरोदरिका अपि | वेश्यया निष्काशिताः । मातापितरौ तु प्रतिदिनं दीनारशतं प्रेषयतः ।
एवं कियत्सु दिनेषु श्रेष्ठिना जायां प्रत्युक्तम्-'अधुना कुमारम् आकारयामः यथा गृहस्थितः सुखं भुक्ते अस्य वधूरपि प्रसत्तिं भजते, आवामपि कतिपयदिनाद् अदृष्टं तं पश्यावः, । इति ध्यात्वा श्रेष्ठी गृहव्यापाराधिकारिणं महत्तमं प्रेषीत् । तेन तत्र गत्वा सबहुमानम् आकारणं कृतम्-“स्वामिन् ! ततो भवदर्शनाऽतुरो भवन्तमेवेच्छति , मातापि भवदर्शनोत्कण्ठिता प्रतिक्षणं भगवन्नामेव भवन्तं जपति । भवदागमनेन गृहशोभा वृद्धि प्राप्स्यति । मादृशाः सेवका अपि नित्यं भवतां मार्गं पश्यन्ति, 'कदाऽस्मत्स्वामी भद्रासनमलङ्करिष्यति ?' इति च प्रतिदिनं प्रतीक्षन्ते । लघुश्रेष्ठिन्यपि स्वाम्यागमनं समीहते । अतो गृहागमनं भवताम् अतीव भव्यतरमस्ति पश्यात्तु तथा रुचिर्भवताम्" | तदा कुमारेण सामर्षं वक्रदृष्टिं कृत्वा प्रोक्तम्-'वरं वरम्, अधुना त्वं याहि, क आगच्छति ? । अत्र स्थितानामस्माकं कियत्परिमिता बहवो वासरा गता यत् त्वं गृहागमनाय युक्ति-प्रयुक्तिभिः प्ररयसि ? । अतो याहि याहि, यदाऽस्माकमागमनं भविष्यति तदाऽऽगमिष्यामः । सर्वतस्त्वम् अतिनिपुणो यद् अस्माकं शिक्षा दातुमागतोऽसि !, अतो याहि, त्वं स्वकार्ये प्रगुणो भव, अस्मदीयं व्ययद्रव्यं शीघ्रं प्रेषय' । इत्युक्त्वा विसर्जितो महत्तमः | सोऽपि निराशो भूत्वा श्रेष्ठिगृहं गतः । तत्र तेन दम्पतिभ्यामुक्तम्-'तस्य मनस्तु चतुर्भिर्भागस्तस्यामेव लुब्धम्, अधुना तु नैव एति'। तच्छुत्वा श्रेष्ठी विषादमापन्नो जायां प्रवक्तुं लग्नः-प्रिये ! यन्मयोक्तं तद् अग्ने आगतम्। कीदृशोऽपि निपुणः पुरुषश्येद् वेश्यासक्तो भवेत् तदा
Jain Education
For Personal & Private Use Only
w.ainelibrary.org

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496