Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 456
________________ श्रीधन्य चरित्रम् ॥ ४४७॥ Jain Education Inter समूलसंसारोन्मूलने च्छाऽस्ति, अतः सर्वमप्यमुं दातुमुत्कण्ठितोऽस्मि यूयं तु परमोपकारिणी निष कारणजगदेकवत्सलाः, अतो मम दीनष्योपरि दयां कृत्वा समग्रममुं पिण्डं गृहीत्वा बहुदिनेप्सितदानेच्छा पूरयत यथा मम निरुपाधिकसुखस्य सत्यङ्कारो भवेत्' । एवं तस्याऽतिभक्तिभरनिर्भरभावोल्लासं ज्ञात्वा तस्य भक्तिखण्डनभयाद् मुनिना पात्रं धृतम् । तदा कुमारेण स समग्रोऽपि पिण्डो दत्तः । तदवसरे कुमारस्य आपाद | मस्तकं यावत् समुद्रवेलेव हर्षोल्लासः प्रवृद्धिं गतः, यथा हृदये चित्ते च न माति । हर्षप्रकर्षात् प्रमोदग्रहिल इव भाति, यथा आजन्मदरिद्रेण अकस्मात् कोटिमूल्यं निधानं स्वगृहे लब्धम् । हर्षव्याकुलश्च न वचः प्रोक्तुं प्रभवति, | अथ दानावसरे मार्गे गच्छन्ती शासनदेवता कुमारस्याऽतीवदानभक्तिं दृष्ट्वा चित्तेऽतिचमत्कृता । तया च कुमारस्योपरि गुणरागाहृतहृदयतया उदात्तनादेन देवदुन्दुभिर्वादितः । प्रोक्तं च- 'धन्यस्त्वं धन्यस्त्वम्, प्रवरं दत्तम्, अतो धर्मद्रुमस्य पुष्परूपं चन्द्रधवलराज्यं तुभ्यं दत्तम्' । इति वरं दत्त्वा देवी तिरोदधे । कुमारस्तु सप्ताष्टपदानि साधुमनुगत्य पुनर्नत्वा स्वास्थानमागतः परं दानावसरे मिलितहर्षेण पुनः पुनः पुलकित | भवति । कियत वेलां चाऽनुमोद्य पुनर्ग्रामान्तर्गत्वा भिक्षया सक्तुकं प्राप्य प्राणवृत्तिं चक्रे । तया शासनदेव्या तवापि स्वप्नो दत्तः । पुनर्द्वितीयदिने तया देव्या अतिभक्तिपूर्वकदानधर्मस्य फलप्रापणद्वारेणास्य यशः| कीर्तिविस्तारणार्थं देववर्गे: सह बहुमानपूर्वं कमत्रानीतः । राजन् स एष वीरधवलः” । ततो राज्ञा सुख-क्षेमवार्तादिशिष्टाचारं कृत्वा तिलकं कृत्वा सप्ताङ्गं राज्यं दत्तम् । वीरधवलस्य च शिक्षा दत्ता-राज्यं त्वया शुद्धपरिणत्या न्यायेन च पालनीयम्, यथा मां न कोऽपि स्मरेत् । तथाऽन्ते च चारित्रम् 1 For Personal & Private Use Only नवमः पल्लवः ||४४७॥ Www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496