Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य चरित्रम् |
नवमः पल्लव:
॥४७४॥
पुनर्मोहोन्मूलनं कृत्वा, सिंहवच्चारित्रं लात्वा, सिंहवच्च परिपाल्य, नि:शेषकर्मकुलोन्मूलनाय आराधनाजयपताकिका गृहीता | श्रीगौतमगणाधीशसाहाय्येन अजरामरपदप्राप्तिर्भविष्यति । अस्य किं दुःखं धारयसि ? | चेत् संसाराऽवटे पतितोऽभविष्यत् तदा तस्य चिन्ता कर्तव्याऽभविष्यत्; अनेन तु समस्तजन्मजरा-मरण-रोग-शोकादिरहिता सच्चिदानन्दसुखसम्पत्तिः प्राप्ता, तस्य किं दुःखं ध्रियसे ? | त्वत्पुत्रेण श्रीमजिनशासनं स्वकुलं चोद्योतितम् । पुनस्तव जामाता नामतो धन्यः, उपकारतो धन्यः, सम्यग्बुद्धितो धन्यः । अनुपधर्माचरणतो धन्यः, दौर्जन्यदोषदुष्टानां स्वबान्धवानाम् अनेकशः कृतमात्सर्याणामपि आत्मीयसौजन्यस्वभावतः सविनयपरिपालनाद् धन्यः । तस्य धन्यस्य किमु धैर्यं प्रशस्यते ?, येन उपदेशादिपुष्टकारणं विना अष्टावपि प्रमदाः समकालं त्यक्ताः समस्तैविकसुखसन्दोहपूरणप्रत्यलं च जडमयं चिन्तारत्नं त्वक्त्वा चारित्रचिन्तामणिरत्नं लीलया गृहीतम् ; यथा च गृहीतं तथा प्रतिक्षणप्रवर्धमानपरिणामैः ।। परिपालितम् । अथ च निःशेषकर्मसन्ततीनिहन्तुम् आराधना जयपताकिका गृहीता | ततोऽयं धन्यो धन्यानां धन्यतमो जातः । योऽस्य मुने म स्मरति सोऽपि धन्यो भवति | धन्यः स क्षणो यस्मिन् क्षणेऽस्य स्वरूपं स्मृतिपथमागच्छति । तस्माद् हे वृद्धे! उत्साहस्थाने किं विषादं करोषि ? | पूर्वं तु अनेके माता-पुत्रादि सम्बन्धा जातास्ते सर्वे व्यर्थाः संसारान्ताऽकरणात् । सत्यो हि अयमेव तव सम्बन्धो यस्या गर्भे आगत्य शालिः सुरनरेन्द्रादिषु पश्यत्सु मोहरिपोरुन्मूलनं कृत्वा निर्भयोजातः । अतस्त्वयाऽस्य चारित्रानुमोदनपूर्वकं सहर्षवन्दननमन-स्तवनादिकं बहुमानेन कर्तव्यं, यथा तवापि अर्थसिद्धिर्भवत्' । एवम् अभयेन निजवचनामृतसेचनेन
॥४७४॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496