Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 494
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४८५॥ | यद्वा प्रार्थनया किम्!, यतस्ते हि सज्जना: सज्जनस्वभावत: पुस्तकं हस्ते लात्वा, बालविलसितंदृष्ट्वा, ईषद् विहस्य, स्वयमेव शुद्धं करिष्यन्त्येव । तथा यद् अस्मिन् ग्रन्थसन्दर्भेऽज्ञानवशाद मिथ्यात्वोदयाश्य जिनाज्ञाविरुद्ध लिखितं भवेत् तत् श्रीमदर्हदादिपञ्चसाक्षिकं त्रिधां शुद्धया मम मिथ्या दुष्कृतं भवतु । मया तु भद्रकभक्तिवशाद मुनिगुणा यथामति गीताः, तत्फलं मम श्रीमज्जिनधर्मे दृढभक्तिरस्तु। जयः श्रीजैनधर्मस्य श्रीसङ्घस्य च मङ्गलम् । वक्तृणां मङ्गलं नित्यं श्रोतृणां मङ्गलं सदा ||२|| अथ पद्ममयग्रन्थकारप्रशस्तिपद्यं यथा यस्यैतानि फलानि दिव्यविभवोद्दामानि शर्माण्यहो। मानुष्ये भुवनाश्तानि बुभुजे श्रीधन्य-शालिगयी। देवत्वे पुनरिन्दुकुन्दविशदाः सर्वार्थसिद्धः श्रियः, सोऽयं श्री जिनकीर्तितो विजयते श्रीदानकल्पमद्रुः ।। ॥ इति श्रीमत्तपोगच्छाधिराजश्रीसोमसुन्दरसूरिपट्टप्रभाकरविनेय-श्रीजिनकीर्तिसूरिविरचितस्य पद्यबद्ध श्रीधन्यचरित्रशालिन: श्रीदानकल्पद्मस्य महोपाध्यायश्रीधर्मसागरगणिनामन्वये महोपाध्यायश्रीहर्षसागरगणिप्रपौत्रमहोपाध्याय-श्रीज्ञानसागरगणिशिष्याल्पमतिग्रथितगद्यरचनाप्रबन्धे श्रीधन्यशालिसर्वार्थसिद्धिप्राप्तिवर्णनो नाम नवमः पल्लवः॥ ॥४८५॥ For Personal & Private Use Only

Loading...

Page Navigation
1 ... 492 493 494 495 496