Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
॥ ४८३ ॥
|भवति । यदुक्तम्I
"ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः " ।
इत्यादि महाकुशलानुबन्धिपुण्यवतामेव सम्भवति । चतुर्थमहाश्वर्यंयत्- 'शतशो विकारहेतुषु सत्स्वपि स्व| कीयाऽद्वितीयधैर्य न त्यक्तम् । 'विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः' इति नीतिवाक्यं स्वदृष्टान्तेन दृढीकृतम् । पञ्चमं पुनः - शालिभद्रस्य तु राज्ञः पारवश्येन वैराग्य उदितः । तदनु श्रीवीरवचनाऽमृतसेचनयोगतो वैराग्यः पल्लवितः, तदा प्रबलवैराग्योदयेन चारित्रेप्सुः स प्रत्यहमेकैकां प्रियां | त्यक्तुं समुद्यतो जातः । अयं तु सुभद्रामुखात् तद्दुःखवार्तां श्रुत्वा ईषद्विहस्येत्युवाच-'शालिभद्रस्तु अतीवमूर्खो | दृश्यते' । प्रियाभिरुक्तम् - 'किं मूर्खत्वम् ?' । धन्यः प्राह - " रे रे मुग्धा नार्यः ! चेत्यक्तुकामस्तदैकयैव हेलया त्यजनीयाः, प्रतिक्षणं परिणामबाहुल्यात् । निमित्तवशगो जीवः, "अतः परिणतिविनिमयं यावद् न विलम्बः | करणीयः । ततो यदा शुभपरिणामो जातस्तदा तत्कार्यं तस्मिन्नेव क्षणे कर्तव्यम् । 'धर्मस्य त्वरिता गतिः' इति | वचनाद् धर्मकृत्ये न विलम्बनीयम् । अतो मयाऽयं मूर्ख उक्तः” । तदा प्रियाभिः, सविलासं नीतिवाक्यानुसारि वचनमुक्तम्- 'स्वामिन् ! इह जगति अत्युग्रकार्यकरणाय वक्तारो बहवो भवन्ति, परं तत्कार्यकरणे प्रवणस्तु | कोऽपि मातृजातो भवति, न सर्वे । ईदृशीं सम्पत्तिं नारीश्व त्यक्तुम् अयमेव प्रभवति, नान्यः' । तस्मिन् क्षणे एकया प्रिययाऽग्रे भूत्वा सविलासमुक्तम्- 'चेद् हस्ते कङ्कणकं तदा किमादर्शप्रयोजनम् ? | शालेस्तु १. दाने । २. श्लाघाया विपयीऽभावः । ३. परिणति विनिमय भवने क्षणं न लमति ।
Jain Education International
For Personal & Private Use Only
नवमः | पल्लवः
||४८३ ॥
www.jainelibrary.org

Page Navigation
1 ... 490 491 492 493 494 495 496