Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
चरित्रमा
नवमः पल्लवः
भुङ्क्ते, विशेषतस्तु अग्रजास्त्रयः स्वस्वचित्तानुकूल्येन यथेच्छं निशङ्कतया भुअते, परंतस्य शल्यलेशोऽपि नास्ति। श्रीधन्य... तथापि ते त्रयोऽपि भ्रातरो धन्यस्योपरि महतीमीा वहमानास्तिष्ठन्ति । तदा ईयल् कुर्वतो बन्धून ज्ञात्वा
धन्यस्य तेषामुपरि कषायलेशो नागतः, प्रत्युत सज्जनस्वभावत्वाद् धन्येन स्वस्यैव दोषश्चिन्तितः - अहो! एते ममाग्रजा मम पूज्या मां दृष्ट्वा ममैव दुष्कर्मोदयेन ईर्ष्यावन्तो भवन्ति, ईष्यागमने चान्तः कषायोदयेन |
ज्वलन्ति, कषायैरन्तज्वलने सति न कुत्रापि रतिर्भवति, अरतिमतां च कुतः सुखम् ? | अरे ! ॥४८॥
सर्वत्राऽरतिकारणामहमेव जातः । मम तु एते सेवां कर्तुं योग्याः, एते भक्त्युचितसेवाकरणेन येन केन प्रकारेण प्रसत्तिपात्रं करणीयाः, तत्तु अहं यथाशक्ति करोमि, परन्तु प्रत्युत ईर्ष्यावृद्धिं भजन्ति, ततोऽत्र न कस्यापि दोषो ममैव दोषः, यतो मदृर्शने एषामीा प्रबलोत्पद्यते, अत एषां दुःखकारणमहमेव भवामि । पूज्यानां वृद्धानां दुःरवैककारणत्वेन भवनं न्यायविदां न घटते, अतोऽत्र मया न स्थातव्यम् । मद्गमनेन हि एते सुखेनाऽत्र स्थास्यन्ति, यत: कारणे गते कार्यं नोत्पद्यते, अतो मया देशान्तरं प्रति गन्तव्यमेव" । इति ध्यात्वा रात्रौ अरतिद्वेषरहितः सहजवृत्त्या मुनिवद् गृहान्निर्गतः, तत्र मनसि दूनोऽपि न यद् मदीयभुजोपार्जितं धनं भुआना एते दुर्जना ममोपरि ईल् कुर्वन्ति, इत्यादि चित्तमात्रेऽपि कदापि नाऽऽनीतम् । एतादृशाः सन्तः क भवन्ति ? | ततः क्रमेणोज्जयिन्यां गतः। तत्र सरोगतस्तम्भवेष्टनचातुर्येण मन्त्रिपदं लब्धम् । पुनस्तथैव सुखसम्पत्तिर्लीलालहरी च प्राप्ता। कियता कालेन पितरौ अग्रजाश्य दुष्कर्मोदयेन दीनावस्थामनुभवन्तो भ्रमन्तस्तत्रागताः। अथ धन्येन 1 गवाक्षस्थितेन दृष्टाः। दृष्ट्वा च मनसि अतीवदूनः-'अहो ! एते मे पूज्या ईदृशी दुर्दशां प्राप्ता दुःखमनुभवन्ति' ।
॥४८१॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496