Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 488
________________ श्रीधन्य चरित्रम् नवमः पल्लव: |४७९॥ गृहीत, ग्रामस्य च भावाऽनुसारेण मूल्यं दत्त' । तदा सर्वैरपि व्यापारिभिरेका सम्भूय मन्त्रणं कृतम्-'नगरगतः सर्वैयापारिभिर्विभज्य विभज्य क्रयाणकं गृह्यते' । ततो धनसारगृहेऽपि भागग्रहणायाऽऽमन्त्रणं कृतम् । तदा तैरग्रजैरसूयादोषेण पितरं कथयित्वा भागग्रहणाय धन्यः प्रैषि । धन्योऽपि पित्राज्ञया तत्र गतः । सर्वक्रयाणकानि दृष्टिपथं कुर्वता, तन्मध्येऽनेकशतफलशास्तेजमतूर्या भृता अनेन शास्त्रपरिचयेनस्वबुद्धिकौशल्येन चोपलक्षिताः, परन्तु तैः कृतबह व्यापारैः क्रयाणकानां उत्पत्तिकुशलेविर्चक्षणत्वमानं वह द्भिरपि नोपलक्षिताः । ते तु तान् कलशान् क्षारमृद्धृतानेव मन्यन्ते स्म । ततस्तान् अनुपलक्ष्य, खलस्वभावत ईर्ष्याबुद्धया मिष्टवचनैः सन्तर्प्य ते घटा धन्यशिरसि ढौकिताः।धन्येनापि स्वबुद्धिचातुर्यातिशयात् तेषांखलतां विज्ञाय तद्योग्योत्तरं दत्तम्। ततः सर्वान् प्रसत्तिपात्रं कृत्वा, सर्वेषां व्यापारिणां चक्षुषि धूलिं दत्त्वा, अनेकशतकोटिसुवर्णकारिकायास्तेजमतूर्याः कलशान् शकटेषु भृत्वा गृहमागतः । इदमप्यत्युत्कृष्टभाग्योदयवतामेव भवति, नान्यस्य । सप्तमः-यदा श्रेष्ठिनः शुष्कवाटिकायाम् एकरात्रिम् उषितस्तदाऽस्याऽत्युत्कृष्टपुण्यप्रभावतस्तद्रात्रिमध्ये सा शुष्कवाटिका नन्दनवनसमा सआता, ततो महती प्रतिष्ठा जाता। इदमप्याश्चर्यम् अनुत्तरपुण्यसूचकम् ।अष्टमः-यदा कौशम्ब्यां गतस्तदा तत्र राजा मणिपरीक्षणार्थं तन्महिमज्ञानार्थं च पटहं दिनत्रयं यावद् वादयति, परं न कोऽपि स्पृशति, सोऽनेन स्पृष्टः । ततो राजान्तिकं गत्वा, तं मणिं लात्वा, शास्त्रपरिकर्मितबुद्ध्या कौशल्येन चातुर्यातिशयेन च मणेातिप्रभावंफलंचोक्तम्। तस्य मणेमहिमाऽपि समग्रसभ्यजनसमक्षस्थालभृततण्डुलोपरिपारावतमोचनपूर्वकः १. हलम् । २. तेन सह। ॥४७९॥ in Education Interrand For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496