Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 487
________________ श्रीधन्य चरित्रम् ॥ ४७८ ॥ कुमारावस्थायां पूर्व कदापि अकृतव्यापारोद्यमोऽपि अज्ञातक्रय-विक्रयस्वरूपोऽपि प्रथमे दिवसे | स्वबुद्धिकौशल्येन लक्षं लात्वा गृहमागतः, अयमप्यनुत्तरः पुण्योदयः । तृतीयः - पित्रा द्वितीयबेलायां | व्यापारकरणप्रेरणायां क्रियमाणायां सामान्यहीनजनोचितहुडव्यवसायं कृत्वा, राजकुमारं जित्वा, द्विलक्षद्रव्यं लात्वा गृहमागतः । कोऽपि स्वप्नेऽप्येवं श्रद्यध्यात् - हुडव्यापारे द्विलक्षद्रव्यं मिलति ? । अयमप्यनुत्तरः पुण्योदयः संभाव्यते । चतुर्थः -- पित्रा तृतीयवारं व्यापारार्थं प्रेषितो दीनहीनजनोचित्तं जुगुप्सनीयं मृतकखद्वाव्यवसायं कृत्वा षट्षष्टिकोटिमूल्यानि रत्नानि लात्वा गृहमागतः । कोऽप्येवं सम्भावयेत् मृतकखट्वाव्यवसाये षट्षष्टिकोटिमूल्यानि रत्नानि लभ्यन्ते ? | अयमप्यनुत्तरः पुण्योदयः । पञ्चमः पुनः - अग्रजान् अनेनैवोपार्जितं धनं यथेच्छं भुआनानपि स्वोपरि ईर्ष्या कुर्वतो दृष्ट्वाऽयं गृहान्निर्गतः । मार्गे क्षुत् - तृङ्बाधितः श्रान्तः क्षेत्रासन्नवटाधः स्थितः, तदा क्षेत्रपतिना सुभगं दृष्ट्वा भोजनाय निमन्त्रितः । अनेनाप्युक्तम्-- 'नाहं कस्याप्यकृतकार्यो भुअ' क्षेत्रपतिनोक्तम्- 'चेत् तवेदृशी प्रतिज्ञाऽस्ति तदा ममेदं हलं वाहय, अहं देहशद्धिं कृत्वाऽऽगच्छामि, पश्चाद् भोजनं करिष्यावः' । इत्युक्त्वा हलं दत्त्वा गतः । अनेन सप्ताष्टपदानि यावद् हलं हर्षितं तावतां हलं तु स्थगितम् । तदाऽनेन बलं कृत्वा सीर' उत्पाटितस्तावता' सहसा पिहितदृषदपि दूरतः पतिता, विवरं च पतितम् । न्यग्भूय यावत् पश्यति तावद् भूमिगृहेऽनेककोटिसुवर्णं दृष्टम् । तद्धनं च क्षेत्रपतेरेव दत्तं परं मनसि लोभो न कृतः । ततो महाग्रहेण भोजनं कृत्वा धनं त्यक्त्वाऽग्रतश्चलितः । इदमपि महता पुण्योदयेन भवति । षष्ठःराज्ञा प्रवहणगतानां निःस्वामिकक्रयाणकानां ग्रहणाय व्यापारिण आह्वाय्योक्तम्-- 'इमानि क्रयाणकानि For Personal & Private Use Only Jain Education International नवमः पल्लवः || ४७८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496